Sunday, October 10, 2010

सप्तश्लोकी दुर्गा ७

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ११-३६

हे देवि ! अखिलेश्वरि ! अखिलस्य विश्वस्य ईश्वरि व्यापिके ! सर्वाबाधाप्रशमनं सर्वदुःखोपशमः। अस्मद्वैरिविनाशनं  अस्माकं वैरिणां दैत्यानां विनाशनं विध्वंसः। एवंविधम् एतत् उपन्यस्तं कार्यं त्वया जगदुपकारकं कर्म कर्तव्यम्।

No comments: