Sunday, October 10, 2010

सप्तश्लोकी दुर्गा ४

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ११-११

शरणम् आगताः रक्ष रक्षेति प्रपन्नं प्राप्ताः, ते एव दीनाः दुःखभाजः आर्ताश्च दुःखिताः, तेषां दुःखेभ्यः परित्राणं परिरक्षणं तदेव परं मुख्यम् अनयम् वर्त्म च यस्याः सा शरणागतदीनार्तपरित्राणपरायणा। हे देवि ! नारायणि ! सर्वस्य लोकस्य आर्तिहरे ! पीडादूरीकर्त्रि ! नमोऽस्तु ते।

No comments: