Sunday, October 10, 2010

सप्तश्लोकी दुर्गा २

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥ ४-१६

हे देवि ! दुर्गे ! स्मृता सती त्वं अशेषजन्तोः सर्वस्यापि प्राणिनः भीतिं हरसि। स्वस्थैः अभीतैः तु जन्तुभिः स्मृता सती त्वं शुभां मतिं बुद्धिं ददासि। दारिद्र्यदुःखभयहारिणि ! दारिद्र्यतः समुत्थितं दुःखं, तस्मात् भयं, तत् हरतीति तच्छीला। त्वदन्या का सर्वोपकारकरणाय सदार्द्रचित्ता? सर्वोपकारान् कर्तुं सदा कृपार्द्रहृदया परा देवता त्वदन्या का अस्ति?

No comments: