Saturday, January 15, 2011

अयोध्या

ख्यातदशरशासिता पुरी इयम् । सा च सत्यनामा इति वाल्मीकिना विवृतम् । सत्यनामा यथार्थनामा अन्वर्थनामा । अत्र टीकाकारैरुच्यते --

  1. न कैश्चित् योधितुं शक्या इति अयोध्या
  2. अयोभिः विष्णुब्रह्मशिवैः ध्यायते नित्यं स्मर्यते या सा अयोध्या

द्वितीयार्थप्रकाशः कुत इति प्रश्नः । यदि भवद्भिः प्रेक्षावद्भिः ज्ञायते, कृपया सूचनीयाः अत्र वयम् ।

10 comments:

Anonymous said...

केयं टीका ।

Phillip said...

अश्रुतपूर्व एवाऽयमर्थप्रकाशः। विचित्रोऽपि॥

Anonymous said...

अश्रुत एषोऽर्थ इति तु न प्रतिभाति । तथापि यावल्लेखकेन टीकाया नामापि न प्रतिपाद्यते तावत्तस्योदासीनतां भावयता कथं व्युत्पत्तिः प्रकाश्येति मौनमालम्ब्यते ।

अनामकः said...

ग्रन्थे तिस्रः टीकाः मुद्रिताः -- टिलक-शिरोमणि-गोविन्दराजीय-टीकाश्च । श्लोकः पुनः अन्वेष्टव्यः ।

अनामकः said...

बालकाण्डे षष्टसर्गे उपान्त्यश्लोके -- सत्यनामा प्रकाशते -- इति वाल्मीकिवचनम् । तत्र "अयोभिः विष्णुब्रह्मशिवैः ध्यायते नित्यं स्मर्यते या, सा" इति उच्यते रामायणशोरोमणिटीकाकारेण ।

Anonymous said...

तत्रैव टीकाकारोक्तिरियं - अकारो वासुदेव: स्याद्यकारस्तु प्रजापति: उकारो रुद्ररूपस्तु तां ध्यायन्ति मुनीश्वरा:' इति पद्मपुराणम् ।। - इति द्रष्टव्या । मया किञ्चिदत्र वक्तव्यं न शिष्टमिति मत्त्वोपरम्यते ।

Anonymous said...

धन्यवादः । मम पुस्तके मुद्रणं त्रुटितम् । तत्र विषयान्तरं बोधितं इति भ्रान्त्या चिन्तितम् । अन्तर्जालेऽपि अस्य ग्रन्थस्य कृतिः उपलभ्यते, यत्र अपराः त्रुटयः विद्यन्ते, परन्तु वाक्यमिदं स्पष्टं दृश्यते । अनुगृहीतोऽस्मि ।

Anonymous said...

"अन्य-जालपुटानि" इत्यत्र सन्निवेशाय धन्यवादास्तथापि नामाशुद्धं लिखितमिति खिन्नोऽहम् ।

अनामकः said...

क्षमां याचे ।

Phillip said...

ममैवाऽश्रुत इति मम विवक्षितम्॥