Thursday, January 20, 2011

अमात्यगुणाः

रामायणे अयोध्यावर्णने मन्त्रिणः सुवर्णिताः । तेषु विशेषणेषु अन्यतमानि सर्वजनजीवितयोग्यानि --

  • विद्याविनीताः -- विद्याविनयोभयसंपन्नाः
  • यथावचनकारिणः -- यथावचनं कुर्वन्ति, सत्यप्रतिज्ञाः
  • स्मितपूर्वाभिभाषिणः -- निर्मत्सरत्वम्
  • सततं प्रियवादिनः

एवं च राजगुणं संहरति --

  • प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्

3 comments:

Phillip said...

हाहा काव्य एवेदृशा अमात्यानां नेतॄणां च गुणा विद्यन्ते॥

Anonymous said...

सद्गुणसत्त्व इयं विप्रतिपत्तिस्ते ज्ञातामात्याधिकरणकतत्सत्त्वे वा । आद्ये सर्वज्ञस्त्वं स्याः । अन्त्ये तु हासो व्यर्थो , विलापस्यैवोचितत्वात् ।

Phillip said...

आद्ये सर्वज्ञस्त्वं स्या इति।

अहमेवैवं न वदेयम्। हाहाकारस्तु महार्थवान्न सदा भवति हास्यरसे च विवादो न भवितव्यः॥