रचयिता -- वैद्यः रामस्वरूपशास्त्री
एकः नृपः आसीत् । स प्रासादे अवसत् । तस्य प्रासादस्य अङ्गणे उद्यानम् अभवत् । तस्मिन् बहवः पादपाः आसन् । तेषु काकः हंसश्च सखायौ आस्ताम् । काकः स्वभावेन खलः आसीत् । सर्वे राजकुमाराः तं हंसं काकं च पर्यचिन्वन् । एकदा खेलतः राजकुमारस्य हारः भूमौ अपतत् । हारः बहुमूल्यैः रत्नैः कृतः आसीत् । काकः तं भूम्यां पतितम् अपश्यत् । स तूष्णीं तम् आदाय अगच्छत् । नृपस्य पुरुषाः हारस्य अन्वेषणाय तत्र आगच्छन् । ते तं हंसं हारस्य विषये बहून् प्रश्नान् पर्यपृच्छन् । स तु "न अहं हारस्य चौरः" इति सत्यं सत्यम् अवदत् ।
तेऽकथयन् -- "हे हंस ! त्वं चौरः नास्ति । तव मित्रं काकः चौरः आसीत् । तथापि मित्रार्थे त्वं येन केन प्रकारेण हारम् आनय । अन्यथा नृपस्य आदेशेन वयं त्वां हनिष्यामः" । हंसः अवदत् -- "अहं हारं अ अचोरयम्, दण्डं न अर्हामि" ।
तेऽकथयन् । सत्यं कथयसि । तथापि काकः तव मित्रम् । स चौरः । त्वं तस्य सहचरः । त्वं मित्रस्य दण्डं सहस्व । इति उक्त्वा ते हंसे बाणम् अक्षिपन् । हंसः पञ्चत्वम् अगच्छत् । अतः उच्यते --
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं च महोदधेः ॥ (हनुमन्नाटकम् १३.११)
Monday, January 12, 2015
Saturday, January 10, 2015
सुभाषितम् -- अदृष्टे दर्शनोत्कण्ठा
अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ (१०४३)
युवतिः कान्तं प्रति -- भवान् दृष्टः स्यात्, अदृष्टो वा स्यात् ... भवता न किञ्चित् अपि सुखं लभ्यते । यतो हि, अदृष्टे सति, तव दर्शनस्य उत्कण्ठता वर्तते । दृष्टे सति, पुनर्विरहात् मे भयम् ॥

Friday, January 09, 2015
महाभारतस्य लेखकः गणेशः
मूलम् -- आदिपर्वणि प्रथमोऽध्यायः (५५-८३)
व्यासः महाभारतं कृत्वा अचिन्तयत् -- "कथं शिष्यान् अध्यापयानि" इति । तदा लोकगुरुः ब्रह्मा स्वयं तत्र आजगाम । तं दृष्ट्वा विस्मितः व्यासः आसनं कल्पयामास । अनुज्ञातः सन् आसनाभ्याशे निषसाद, उवाच च -- "भगवन् ! मया परमपूजितं काव्यं इदं कृतं, परं न कश्चित् लेखकः विद्यते" इति । तदा ब्रह्मा उवाच -- "काव्यस्य लेखनार्थं गणेशः स्मर्यताम्" इति ।
ततः व्यासः हेरम्बं सस्मार । स्मृतमात्रः गणेशः तत्र आजगाम यत्र वेदव्यासः स्थितः । पूजितः तथा उपविष्टः सन्, गणेशः व्यासेन उक्तः -- "गणनायक ! भारतस्य लेखको भव" इति । एतत् श्रुत्वा, विघेशः प्राह -- "यदि लिखतः मे लेखनी क्षणं न अवतिष्ठेत, तदा अहं लेखकः स्याम्" इति । व्यासोऽपि तं देवम् उवाच -- "अबुद्ध्वा मा क्वचित् लिख" इति । "ॐ" इति उक्त्वा गणेशः लेखकः बभूव ।
अतः मुनिः तदा तदा गूढं ग्रन्थग्रन्थिं चक्रे । गणेशः सर्वज्ञोऽपि तदा क्षणं विचारयन् आस्ते । तावत् व्यासोऽपि अन्यान् बहून् श्लोकान् चकार ।

धूर्तः शृगालः -- बालनीतिकथा १.२
रचयिता -- वैद्यः रामस्वरूपशास्त्री
एकः शृगालः आसीत् । स वनेऽवसत् । एकदा स जलं पातुं वापीम् अगच्छत् । स जलेऽपतत् । तस्मिन्नेव क्षणे कश्चित् छागः तत्रागच्छत् । स अपि पिपासितः आसीत् । स तम् अपृच्छत् -- "अहो मित्र ! अपि वर्तते मधुरं जलम् ?" शृगालः अवदत् -- "मधुरमिति किं कथयामि, केवलं पीयूषमेव । वारं वारं पीत्वापि तृप्तो न भवामि । न कामये हातुं जलमिदम् " ।
छागः सरलहृदयः आसीत् । स दुर्जनस्य तस्य मधुराणि वचनानि श्रुत्वा जलं पातुं तां वापिकां अवातरत् । शृगालस्तु तस्य पृष्ठे पादं निधाय वाप्याः बहिः निरगच्छत् । छागस्तु तत्रैव जले मज्जनानि च पुनः पुनः अनुभूय दुःखेन प्राणान् अत्यजत् । अत उच्यते --
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ (हितोपदेशः १.८२)

Wednesday, January 07, 2015
लुब्धो दाशः -- बालनीतिकथा १.१
रचयिता -- वैद्यः रामस्वरूपशास्त्री
पुरा धारानगर्यां कश्चिद् दाशः आसीत् । स एकां कुक्कुटीम् अपालयत् । परमा अद्भुता आसीत् सा कुक्कुटस्त्री । सा नित्यं सौवर्णम् अण्डम् अददात् । दाशस्तु तस्य सौवर्णस्य अण्डस्य विक्रयेण कुटुम्बम् अपुष्यत् । सुवर्णं लब्ध्वा तस्य तृष्णा अवर्धत । स अर्थस्य संग्रहं कर्तुं प्रवृत्तः । धनसञ्चये प्रसक्तः स दाशः एकदा अचिन्तयत् --
किन्न एकपदे सर्वं सुवर्णं कुक्कुटस्त्रियाः ।
कुक्षिं विदार्य संग्राह्यं किं स्वल्पेन शनैः शनैः ॥
इति विचिन्त्य स कुक्कुट्याः उदरं पाटयाञ्चकार । उत्पाटिताद् अपि कुक्कुट्याः उदरात् न स एकमपि अण्डम् अलभत ।
"हा दुःखम् ! वृद्धिमिष्टवतो मूलं मे विनष्टम्", इति बहु विलप्य लोभाविष्टः स आत्मानं शपन् विनष्टः । अत उच्यते --
मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् ।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम् ॥
भोजप्रबन्धात् उद्धृतं सुभाषितम् (३) । अस्यां बालनीतिकथायां धारानगरी, भोजप्रबन्धे धाराराज्यम् । कथावस्तु तु भिन्नमेव । भोजप्रबन्धे राजा वृद्धत्वं गतः स्वपुत्रे राज्यभारम् आरोपयितुंम् इच्छन्नपि बलवन्तम् अनुजं वीक्ष्य, तत्र लोभभूमिं ज्ञात्वा, विचार्य अनुजाय राज्यं ददाति ॥

Sunday, January 04, 2015
कुट्टनीमतम् -- औन्नत्यम्
कुट्टनीमतकाव्ये वाराणसीवर्णने त्रीणि दीर्घसमस्तपदानि विद्यन्ते । तत्र सर्वत्र नैरन्तर्यं ध्वनितम् । एकैकं तानि पद्यानि अवलोकयामः ।
अतितुङ्ग-सुरनिकेतन-शिखर-समुत्क्षिप्त-पवन-चलिताभिः ।
मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥६॥
उन्नताः देवालयाः, तदूर्ध्वभागेषु वायुना कम्पिताः वैजन्त्यः (पताकाः) । तैः मञ्जरितम् इव सञ्जातपुष्पगुच्छम् इव नभः विराजति यत्र (वाराणस्याम्) । अनेन दीर्घसमासेन साधु ध्वनितं प्रासादौन्नत्यम् ।

Subscribe to:
Posts (Atom)