Wednesday, September 05, 2007
जाह्नवी -- गुरुवासरे
गत-सप्ताहे, जाह्नवी नाम्ना आवास-संस्कृत-शिबिरं, अमेरिकायाः पूर्वप्रान्ते प्राचलत्। एतत् शिबिरं, संस्कृतभारत्या योजितम्। प्रथम-सत्त्रं शुक्रवासरे प्रातः आसीत्। अतः बहुशः सर्वे गुरुवासरे एव वासस्थलं प्रति आतगवन्तः। प्रथमं, पञ्जीकरणम्। तदा अस्माकं वासगृहं निर्दिष्टम्। यथा जाह्नवी, तथा वासगृह-नामानि अपि नद्याः नामानि -- गङ्गा, यमुना, सरस्वती, तुङ्गा, कावेरी इत्यादीनि। स्व-वस्तूनि वासगृहे स्थापयित्वा, भोजनं कृत्वा, नूतन-मित्राणां परिचयं प्राप्य, निद्रा कृता।
सरलम्
एतस्य पुटस्य एका पठिता (या पठति, सा) सूचितवती यत् नूतन-लेखाः कठिनाः सन्ति . . . पुरातन-लेखाः सरलतराः आसन् -- इति। एवं, पुनः केचन लेखान् सरल-शैल्या लिखामि। तत्र "सरलम्" इति अङ्कः अपि भविष्यति।
Wednesday, August 29, 2007
युद्धम् (फल-गुलिकाभिः)


Monday, August 27, 2007
Saturday, August 25, 2007
धर्मश्रीः


कल्पितस्य सत्यनारायणस्य जिवन-कथा एषा। जीवनमध्ये, मतपरिवर्तनं कृत्वा, तेन काश्चन बाधाः अनुभूताः। अस्मिन् विषये अस्य सत्यनारायणस्य चिन्तनरीतिः, बन्धूनां, मित्राणां, सहोद्योगिनां, परितस्य समाजस्य प्रतिवचनं, प्रतिक्रिया च बोधितम्। एषः विषयः अस्माभिः अपरिचितः इति न। किन्तु, सर्वासां क्रियानां परिणामः कः इति सर्वदा विचारः न क्रियते। पुस्तक-पठनम् इदं निश्चयेन मतपरिवर्तने विचार-तरङ्गान् जनयति।
Friday, August 24, 2007
मित्राणि
संस्कृतद्वारा बहूनि मित्राणि लब्धानि, यद्यपि मुखपरिचयः नाभवत्। गतसप्ताहान्ते सदसि तेषु बहवः सदस्याः। तैः बहूभिः मिलित्वा महान् आनन्दः!
दूरात्, एकः ज्येष्ठकार्यकर्ता विमानेन आगच्छति। अहं तस्य चालकेन युक्तः। विमानपत्तने प्रतीक्षमानोऽहं, सः अदृष्टः। कथम् एतत् इति चिन्तयन् तं दूरभाषाम् अकरवम्। सः वदति--निर्दिष्टस्थले अस्मि--इति। सोऽहं तत्रैव अपि...कथम् एतत्? ज्येष्ठः मुख-वस्त्राणां वर्णनं कर्तुं कथं प्रष्टव्यः? आचारः न त्यक्तव्यः खलु! समीपस्थाः भारतीयाः बहवः। तेषु दूरवाण्या सम्भाषणं कुर्वन्तः द्वित्राः। एवं तर्हि, मया उक्तम् -- भवतः पृष्ठोऽस्मि, कृपया अर्धवृत्तिं करोतु, हस्त-कम्पमानं माम् अभिजानातु--इति। वस्तुतया तदनन्तरम् एव तस्य परिचयः मया प्राप्तः!!
दूरात्, एकः ज्येष्ठकार्यकर्ता विमानेन आगच्छति। अहं तस्य चालकेन युक्तः। विमानपत्तने प्रतीक्षमानोऽहं, सः अदृष्टः। कथम् एतत् इति चिन्तयन् तं दूरभाषाम् अकरवम्। सः वदति--निर्दिष्टस्थले अस्मि--इति। सोऽहं तत्रैव अपि...कथम् एतत्? ज्येष्ठः मुख-वस्त्राणां वर्णनं कर्तुं कथं प्रष्टव्यः? आचारः न त्यक्तव्यः खलु! समीपस्थाः भारतीयाः बहवः। तेषु दूरवाण्या सम्भाषणं कुर्वन्तः द्वित्राः। एवं तर्हि, मया उक्तम् -- भवतः पृष्ठोऽस्मि, कृपया अर्धवृत्तिं करोतु, हस्त-कम्पमानं माम् अभिजानातु--इति। वस्तुतया तदनन्तरम् एव तस्य परिचयः मया प्राप्तः!!
Monday, August 13, 2007
आकाङ्क्षा रघुवंशे
पूर्वं, आकाङ्क्षा का इति अत्र लिखिता। अनेन एव क्रमेण जिनसमुद्रेण रघुवंशस्योपरि भाष्यं लिखितम्। उदाहरणं पश्यामः --
निवर्त्य राजा दयितां दयालुः
तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुः समुद्राम्
जुगोप गोरूपधरामिवोर्वीम् ॥२.३॥
दयालुः सः राजा तां सौरभेयीं जुगोप ररक्ष।
किं कृत्वा? दयितां निवर्त्य।
कथंभूतो राजा? यशोभिः सुरभिः श्रेष्ठः।
धेनुं कामिव? गोरूपधराम् उर्वीमिव।
कथंभूता उर्वी? पयोधरीभूतचतुःसमुद्रां, पयसा अधरीभूताः चत्वारः समुद्राः यस्याः सा, ताम्।
उर्वीपक्षे अपयोधराः पयोधराः सम्पन्नाः चत्वारः समुद्राः यस्याः सा, ताम्।
निवर्त्य राजा दयितां दयालुः
तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुः समुद्राम्
जुगोप गोरूपधरामिवोर्वीम् ॥२.३॥
दयालुः सः राजा तां सौरभेयीं जुगोप ररक्ष।
किं कृत्वा? दयितां निवर्त्य।
कथंभूतो राजा? यशोभिः सुरभिः श्रेष्ठः।
धेनुं कामिव? गोरूपधराम् उर्वीमिव।
कथंभूता उर्वी? पयोधरीभूतचतुःसमुद्रां, पयसा अधरीभूताः चत्वारः समुद्राः यस्याः सा, ताम्।
उर्वीपक्षे अपयोधराः पयोधराः सम्पन्नाः चत्वारः समुद्राः यस्याः सा, ताम्।
उदर-निमित्तं बहुकृत-वेषम्
अधुना दृष्यते यत् संस्कृतस्य हितजनसङ्ख्या वर्धमाना अस्ति। सङ्गणकजाले नूतन-लेखान्, पुटान्, इतिवृत्तपत्राणि च निरन्ततया रचयन्तः सन्ति। गूगल-द्वारा कमपि शब्दं पञ्जीकृत्य, यदा सः शब्दः अन्तर्जाले कुत्रापि आभाति, तदा विद्युत्-पत्रं प्राप्य पठितुं शक्यते। एवम् अहं "संस्कृतम्" "संस्कृतं" च शब्दरूपौ तत्र पञ्जीकृतवान्। अद्य एतत् पत्रम् प्राप्तम्। संस्कृत-लोकोक्तिः -- उदर-निमित्तं बहुकृत-वेषम् -- तस्याः किञ्चित् अनुवाद-प्रयत्नः कृतः। उक्तेः सरल-भावः -- बुभुक्षितेन किमपि कर्तुं शक्यते इति। उदरं इति आकाङ्क्षां मत्वा, इयम् उक्तिः किं वेदान्तसत्यं न सूचयेत्?
मेलनम्
सप्ताहान्ते, किञ्चन वार्षिक-सदस् अत्र भविष्यति। उप-२० सदस्याः भागं स्वीकरिष्यन्ति, अतः सर्वं अपि गृहेषु एव कुर्मः. . . सदसः प्रकोष्ठस्य आवश्यकता सर्वथा नास्ति। केषाञ्चित् जनानाम् रचना, तस्यां सम्यक-करणे तु बहु समयः आवश्यकः! कियत् समयः आवश्यकः तु प्रथमकरणे एव स्पष्टतया अवगतम्। किन्तु, यत् अत्र भवति, तत्तु लघुरूपेण। पूर्वं बहुषु सदस्सु मया भागः स्वीकृतः। तत्रत्याः चालकाः कियत् कार्यं अकुर्वन् तु इदानीम् एव अभिजानामि।
Wednesday, August 01, 2007
स्तरः कः
किमपि कार्यं सततं कुर्वतः स्फलता तु भवत्येव। किन्तु तदन्तरे अफलतां मनसि निधाय, ध्यानं कुर्वतः आशाभङ्गः एव भवति। तर्हि सज्जनवता कर्मयोगिना भवितव्यम्। किन्तु, अहं शान्ति-मूर्तिः नास्मि। यद्यपि संस्कृतपठनं दैवकार्यम् , परस्य साधनं कदा भवेत् इति चिन्तनम्। ततः यदा ग्रन्थालयं गतः, पुराणौ स्वीकृतौ। किमपि अवगन्तुं शक्यते वा इति प्रश्नः। आश्चर्यचकितोऽहम्। भावः तु किञ्चित् अवगन्तुं शक्यते। यत्र सन्देहाः वर्तन्ते, अधो लिखितं आङ्ग्लानुवादं पठित्वा, अवगन्तुं शक्यते। मम सुखस्य पारः एव अज्ञातः तत्क्षणे। ज्ञातम् यत् --
- संस्कृतं पठित्वा अवगमनं, अनुवादं पठित्वा अवगमनं, तयोः महदन्तरम्। अनुवादेन रसबोधनं कठिनम्।
- यत्र मूलावगमनं कठिनम् , तत्र अनुवादं पठित्वा संस्कृतस्य पुनःपठनं--तस्य महान् लाभः। यतः सूक्ष्म-भावः तु कृत्रिमे कदाऽपि न भवत्येव।
- छन्दसि लिखितं, तस्य अनुवादं कः लेखितुं समर्थः?
Subscribe to:
Posts (Atom)