Sunday, October 10, 2010

सप्तश्लोकी दुर्गा १

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १-४२

न हि केवलं प्रवृत्तिमार्गाणाम् असौ मोहिका भवति, किन्तु ज्ञानिनाम् अपि। सा देवी भगवती महामाया ज्ञानिनां चेतांसि अन्तःकरणानि बलात् आकृष्य विवेकात् व्यावर्त्य मोहाय प्रयच्छति मोहवन्ति करोति। भवद्विधानां का कथा इति भावः॥

[ दुर्गासप्तशती गूढार्थमयी। प्रकाशितार्थः अत्र अन्वयमात्रप्रायः ]

Friday, October 08, 2010

वितस्ता

२००९-तमे वर्षे वितस्ता इति शिबिरम् आवासीयं प्रवर्तितं देशस्य अस्य उत्तरे भागे। यथा काश्मीरराज्ये विस्तता नदी प्रवहति, तथैव अत्रापि सा एव पावनी संस्कृतनदी प्रवहतु इति धिया। काश्मीरराज्येतिहासः नीलमतपुराणे किञ्चित् अङ्कितः वर्त्तते। तत्र एव च उच्यते -- वितस्तां ये गमिष्यन्ति ते यास्यन्त्यमरावतीम् -- इति। पुराणमिदम् अन्तर्जाले लभ्यते। तत्र १४३९-तमं श्लोकं भवन्तः पठितारः स्वयम् एव परिशीलयन्तु।

Thursday, October 07, 2010

नवरात्रम्

श्वः आरभ्य नारात्रपर्वकालः। तत्तद्देवताराधने दर्शकसमूहप्राप्त्यर्थं सर्वाभिः देवालयकार्यसमितिभिः पत्राणि विकीर्णानि। प्रायशः सर्वत्र नवरात्रिः इति अपशब्दः प्रयुक्तः। न्यूनातिन्यूनं यदा संकल्पः क्रियते, शब्दः सुप्रयुक्तो भवतु। नवानां रात्रीणां समाहारः नवरात्रम् इति शुद्धिकौमुदी।

भाषायाः प्रयोजनम्

भाषाकौशल्यवर्धनाय सर्वप्रथमोपायः श्रवणम्। अतः ध्वनिमुद्रणश्रवणे मम प्रीतिः वर्त्तते। कदाचित् कस्यचन उपाध्यायस्य स्वानुभववर्णनकथनं शृणोमि स्म। एकदा संस्कृतविद्यालये मञ्चे संस्कृतभाषया एव भाषमाणः सः। पिपासिते जाते सः अपृच्छत् -- किञ्चित् जलम् आवश्यकम् -- इति। परन्तु, पृष्टः संस्कृतच्छात्रः प्रार्थनां नैव अवागच्छत्। वीक्षकेषु अन्यतमेन संस्कृतपण्डितेन प्रादेशिकभाषया सः एव छात्रः पुनः प्रार्थितः, तदा एव जलम् आनीतम्। सः अध्यापकः अनुधा भणति -- संस्कृतेन न दाहः शाम्यते -- इति।

द्वित्रेभ्यः दिनेभ्यः पूर्वम् उच्चन्यायालयघोषणा यत् संस्कृतभाषाव्यवहारः न्यायालये न्यायविरुद्धम् इति। न वा प्रार्थकः संस्कृभाषया प्रार्थनां कुर्यात्, न वा न्यायाधीशाः संस्कृतभाषया निर्णयं प्रकाशयेयुः। अत्र तु प्रार्थकः संस्कृतभाषामात्रम् उपयुज्य नैव प्रार्थयत, प्रत्युत हिन्दीभाषानुवादः अपि कृतः। तदपि अपर्याप्तम् आसीत्। अहो स्थितिः।

Wednesday, October 06, 2010

अहम् ईश्वरनाम्ना शपे

केभश्चित् मासेभ्यः प्राक् प्रसृता वार्ता इयं यत् राजसभायां शपथोच्चारः संस्कृतभाषया कृतः इति। तदिदं मुद्रितं च।

Tuesday, October 05, 2010

अवधानग्रहं नृत्यम्

विमानेन यातायातम् सर्वैः अभ्यस्तम्। अतः यात्रिकैः आरक्षानुशासनोद्घोषणा सर्वथा उपेक्ष्यते। केचन पुस्तकं पठेतुः, एके सङ्गीतं शृणुयुः, अन्ये च संलापं कुर्युः। अतः क्वचित् अवधानाकर्षणार्थम् अतिथिपतिभिः प्रेक्षात्मकं नृत्यं विधीयते। किन्तु किम् अनुशासने अवधानपातः उत नृत्ये इति प्रश्नः अवशिष्यते।

भारतम्

अस्माकं देशः भारतदेशः। अस्य का व्युत्पत्तिः? भा दीप्तौ अर्थे वर्त्तते। अतः ज्ञानप्राप्तिः एव मुख्योद्देशः यत्र तत् भारतम् इत्युच्यते। कदाचित् श्लोकान्तरमपि श्रुतम् -- भाति सर्वेषु शास्त्रेषु रतिः सर्वेषु जन्तुषु। तारणं सर्वलोकेषु तेन भारतम् उच्यते॥ पौनःपुन्येन स्मारयन्ति ईदृशाः श्लोकाः -- परोपकारं पुण्याय पापाय परपीडनम् -- इति।

Sunday, October 03, 2010

विचित्रं चित्रम्

अन्तर्जाले सर्वक्षेत्रचित्राणि दरीदृश्यन्ते। तथापि संसारे प्रकृतिः क्षणशः यदा आलोक्यते, निजसौन्दर्यं स्वयं भासते। अद्य जलबिन्दुं कञ्चन अवलोकयामः।

Friday, October 01, 2010

रामायणम् - १.००२ -- आदिकाव्यम्

आरभ्यते ध्वनिमाला। प्रथमसत्त्रे रामायणस्य प्रचोदनं ध्वनितम्।
अवतारणाय --  mp3 पत्रम्। ००:१९:४२ होराः। ४,५१ MB ॥

ग्रहान्तरे जीवः

विश्वेऽस्मिन् ग्रहान्तरे जीवाः केचित् किं वर्त्तन्ते इति प्रश्नः। सर्वेषु लोकेषु पितराः देवाश्च कर्मफलम् अनुभवन्ति इति अस्माकं भारतीयानां विश्वासः। किन्तु अस्मिन् एव भूलोके ग्रहान्तरे प्राणिनः किं वर्त्तन्ते इति प्रश्नान्तरम्।

पाश्चात्यैः कैश्चन अनुकूलग्रहान्वेषणे जीवनम् एव यापितम्। सर्वेषु ग्रहेषु सामान्यप्राणिनः जीवितुम् नैव शक्नुवन्ति इति अनुमानम्। असामान्यप्राणिनः नाम भूतपिशाचादयः। बहु कालं यापयित्वा, इदमिदानीं तादृशः ग्रहः दृष्टिगोचरं पतितः, यत्र वातावरणं जीवानुकूलं स्यात्।

श्लाघनीयः अयं प्रयासः। एतादृशः कियान् प्रयासः कृतः अस्माकं पूर्वजैः ऋषिभिः चिरन्जीविभिश्च? न केवलं लोकान्तरे कर्मफलानुभवः, प्रत्युत लोकेऽस्मिन् एव भूतपिशाचादयः निवसन्ति, तात्कालिकदेवदर्शनं च भवितुम् अर्हति इति तेषाम् अनुभवः। "सः तपोऽतप्यत। सः तपस्तप्त्वा" -- इति उक्तेः कियती महत्ता ...