Saturday, June 30, 2007

हनुमता सूर्यः निगीर्णः (२)

भागाः -- प्रथमः , द्वितीयः, तृतीयः

तस्मिन् दिने अमावस्या तिथिः आसीत्। तदानीम् एव राहुः सूर्यं ग्रस्तुं शक्नोति स्म। किन्तु, सः सूर्यबिम्बम् अदृश्यं ज्ञात्वा इन्द्रलोकं ययौ। इन्द्रं सम्बोधितवान् च--हे देवराज्! भवान् जानाति एव अहं यदा-कदा पूर्णिमायाम् अमावास्यां च एव आहारं करोमि। अद्य मम आहारकाले कः सूर्यं स्वमुखे निगीर्णवान्? मर्यादायाः उल्लङ्घनं केन कृतम्?


देवराजः इन्द्रः ऐरावतमारुह्य स्वर्गात् बहिः आगच्छत्। केन च् एतादृशी धृष्टता कृता? शिशुः कपिः तु राहुम् अपि परिपक्वं जम्बूफलं मत्वा खादितुम् ऐच्छत्। किन्तु सः त्राहि माम्, त्राहि माम् इति कथयित्वा क्रन्दितुम् आरभत। तदानीं कपिः ज्ञातवान् यत् अयं कश्चित् प्राणी विद्यते। राहुः च पलायित्वा ऐरावतस्य पृष्ठभागे अन्तर्दधौ। शिशुः कपिः यद्यपि सूर्यं मुखे रक्षितवान् आसीत् किन्तु सः फलमिव स्वादिष्टः न अनुभूतः। तस्य रश्मिभिः कपिः ज्ञातवान् यत् अयम् अपि कश्चित् प्राणि विद्यते। अतः तमपि मुखात् बहिः निःसारितवान्।


Thursday, June 28, 2007

रघुवंशः

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥१.२॥

भावार्थः, अनुवादः, व्याख्या -- रघुवंशः १.२

पूर्वश्लोकाः -- उपोद्घातः, रघुवंशः १.१, १.२

Wednesday, June 27, 2007

हनुमता सूर्यः निगीर्णः (१)

भागाः -- प्रथमः, द्वितीयः, तृतीयः

पण्डितेन व्रजभूषणमिश्रेण अनेकानि पुस्तकानि प्रकाशितानि । तेषु अन्यतमं--हनुमच्चरितम् । ततः एका उपकथा अत्र प्रकाशिता भवति । पुस्तके १२३ पुटाः, ततः पुटमितम् अत्र प्रतिलेखितं भवति । प्रकाशिका--संस्कृतप्रसारपरिषद्, मारुतिमन्दिरम्, प्रकाशपुरी, आरा (विहारः), 802301.

शैशवे काले एकदा ब्राह्ममुहूर्ते यदा शिशोः आञ्जनेयस्य पिता सन्ध्योपासनार्थं कस्यचित् सरोवरस्य तटं गतवान् आसीत् , माता च सुमनः सञ्चयनं कर्तुं गतवती आसीत् । तदानीम् एव वानरशिशुः क्षुधया व्याकुलः अभवत् । इतस्ततः अवलोकनेन किमपि खाद्यं न अपश्यत् । सहसा पूर्वस्यां दिशि तस्य वानरशिशोः दृष्टिः गता । तदानीं तरणिबिम्बम् अदृश्यत । शिशुना कपिना अवगतम् -- किमपि मधुरं फलम् अस्ति ? तत् फलं धर्तुं खादितुं च तद्दिशि उत्प्लवनम् अकरोत् । किन्तु , सूर्यः अनतिदूरम् नासीत् । अतः द्वितीयप्रहरात् पूर्वं तत्र गत्वा भगवन्तं सूर्यं मुखे स्थापितवान् ।

(अनुवर्तते)

Tuesday, June 26, 2007

भुवमानीता भगवद्भाषा

हीब्रू-भाषायाः उत्थान-कथा, इतिहास-कथा इयम् । गतशतके हीब्रू-क्षेत्रे, आधुनिक-संस्कृत-क्षेत्रे, तयोः किञ्चित् समानता वर्तते । श्री-विश्वासः अनेकानि पुस्तकानि पठित्वा अननुदितं स्वलेखनं अकरोत् । आकर्षक-सुलभ-रीत्या च । दारावाहिनी-रूपेण "सम्भाषण-सन्देशः" पत्रिकायां प्रकाशिता, इदानीं पुस्तक-रूपेण प्रकाशिता इयं कथा "भुवमानीता भगवद्भाषा" ।

संस्कृत-भाषा किमर्थम् ? साधनं उत साध्यं ? कृष्ण-शास्त्रिणः लेखेषु उत्तराणि लभ्यन्ते । यथा पुराणेषु उपकथासु कोऽपि परिपृच्छकः पृच्छेत् -- इमानि उत्तराणि कुतः ?

अस्य प्रश्नस्य अन्यतमम् उत्तरम् इतिहासः एव । एवं सति, सर्वैः संस्कृतप्रियैः इदं पुस्तकम् अवश्यं पठनीयम् । अत्र भाषायाः समीपस्थानां नैकानां विषयानां सम्बोधः पठने भवेत् ।

Monday, May 14, 2007

मण्डल-क्रीडनकानि

बालकावस्थायां, मित्रमण्डले फलक-क्रीडनकानि / मण्डल-क्रीडनकानि -- मोनोपोली, क्लू, लूडो, इत्यादयः -- उपयुज्य क्रीडामि स्म । गते सप्ताहान्ते, क्रीडनकापणम् अवलोक्य अन्तर्गतः । बह्व्यः विविधवर्णीयाः विविधाकाराः क्रीडाः । प्रत्येकं, तस्य विषय-सन्दर्भः (theme) च । गञ्जीफा-क्रीडनकानि प्रचुरानि । अद्यत्वे मण्डलक्रीडनकानि अपि गञ्जीफा-रूपेन निर्मितानि सन्ति, यतः क्रीडित्वा भाण्डारे स्वल्पम् एव स्थलम् आवश्यकं भवति । काश्चन गञ्जीफाः भूमौ निधाय, ताः एव मण्डलं भविष्यन्ति । अन्याः गञ्चीफाः क्रीडितुं उपयोग्याः, अपराः प्राप्ताङ्कं गणयितुं उपयोग्याः । अक्ष-स्थाने अपि गञ्जीफाः--एकस्य अक्षस्य स्थाने सामान्यतः ३६ गञ्जीफाः निर्मिताः भवन्ति । एवं प्रति-पर्याय-षट्कं तस्य मिश्रणस्य आवश्यकता नास्ति ।

Saturday, May 05, 2007

रिक्तम्

ह्यः यदा अहं गृहं गतः, पत्न्या निवेदितम् -- आपणः गन्तव्यः -- इति । प्रायः किमपि वस्तु क्रेतुम् इच्छति इति चिन्तयन् , अस्तु इति उक्त्वा , स्वकार्यं पालयन् आसम् । अनन्तरं यदा अहं हैमयन्त्रम् उद्घाटितवान् , आश्चर्यचकितोऽहं अहो इति उच्चारितवान् । हैमयन्त्रं रिक्तम् आसीत् । दधि, क्षीरं, शाकं, फलं . . . एकम् अपि नासीत् । पत्न्या उक्तम् -- यतः भवान् कार्यव्यस्तः, इतः पूर्वं एषः विषयः अनुक्तः, किन्तु इदानीं गमनं विना किं वा करवाव इति । किन्तु , प्रतिदिनं सा सम्यक् भोजनं पचति अपि ! बहूनि शाकानि सन्ति चेत् अपि मम पचनं तु सामान्यम् । प्रत्युत, यद्यपि स्वल्पम् एव आसीत्, तेन पत्नी रुचिकरं भोजनं पक्ववती । यद्यपि सा स्वपचनकौशलं न अभिजानाति, मम जिह्वा मां सम्यक् निवेदयति ।

Friday, May 04, 2007

दर्शने अदर्शनम्

यदा बहु कार्यम् अस्ति , तेन पीडनं च, उद्विग्नेन मया स्वप्नः न क्रियते । एवं प्रतिदिनं घण्टाचतुष्टयात्मकया निद्रया स्वभावः सम्यक् दृष्यते । अपरेण चलच्चित्र-मुद्रिकां निर्माय, पाश्चात्य-दर्शने , अहं स्वात्मानम् अभिज्ञातुं शक्नोमि वा इति प्रश्नः । अन्येषाम् असमः, अहं योगी नास्मि, प्रत्युत स्वप्नावलम्बी । इदम् अभिलषितं विना , या स्वल्पा संस्कृतिः अस्ति, सा अपि अदृश्या भवति । विना चिन्तनं, विना चित्तं, जडेन कायेन कार्यं क्रियते । अन्तर्यामिवत् दर्शी भवामि । किन्तु आनन्दे योगिनः साक्षि-दर्शनं, श्रान्ते मम अदर्शनं च, एतयोः महान् भेदः ।

Thursday, May 03, 2007

गणानुसरणम्

एषः मासः क्लिष्टकरः । गत-मासे भाषा-वर्गं न गतवान् । केवलं समयाभावः कारणं नास्ति । सङ्गणक-तन्त्रज्ञानां कार्यं कथम् ? सर्वे स्वकार्यं कुर्वन्ति । अनन्तरं, सर्वेषां कृत-कार्याणां योजना । तत्र, सर्वे सम्भूय, सर्वैः कार्यं करणीयं भवति । प्रातः कार्यालयम् आगत्य, सायङ्काले गृहगमनैच्छा मम । किन्तु , सर्वेषां सहोद्योगिनां न तथा । एकादशवादने कार्यालयम् आगच्छन्ति केचन । किन्तु अलसाः न । अर्धरात्रि-पर्यन्तं श्रम-कार्यं कुर्वन्ति । विकलङ्गित-काले कार्यकरणम् । तथाऽपि, यथा गणस्य सम्मतिः तत् अनुसृत्य मम उररीकरणम् । किं वा कुर्याम् ? तर्हि, एतस्मिन् मासे मम भाषावर्ग-संस्कृतपठनं गतम् ।

Tuesday, May 01, 2007

भजनम्

अभिनव-यौवनः अहं साप्ताहिक-भजन-मण्डले भागं स्वीकरोमि स्म । मातृभूमेः बहिः गत्वा एतत् चरितम् अदृश्यं अन्तर्भूतम् । किन्तु , बालाभ्यासाः जलपतनम् इव । तस्य अवरोधं कदा पर्यन्तं कर्तुं शक्नुमः ? एवम् अकस्मात् मनसि भजनैच्छा उत्पन्ना । आधुनिकरीत्या अन्तर्जाल-द्वारा अन्वेषणम् । तत् कुर्वन् आश्चर्यचकितोऽहम् ! पूर्वं संस्कृतम् अज्ञात्वाऽपि सर्वं संस्कृतेन कृतम् । किन्तु नूतनानि भजनानि आङ्ग्लभाषया क्रियन्ते । संस्कृतस्य सुन्दर-भावस्य अनुवादं कर्तुं प्रयतन्ते एते निर्मातरः । मह्यं हास्यम् इव श्रूयते, यतः मम श्रवणाभ्यासः नास्ति । क्रिस्तजनाः इव श्रूयन्ते । संस्कृतं तु सागरम् । गभीर-मध्य-गमन-पूर्वं भाषा-कौशल्यम् आवश्यकं स्यात् । किन्तु , सरल-संस्कृतं तु अतिसरलम् । सामान्य-भजनानि तु तथा --

गज-मुख ! गज-मुख ! गणनाथ !
सुर-मुनि-वन्दित ! गुण-शील !

युवकानां सरल-संस्कृतपरिचयः आवश्यकः । श्रद्धा, एवं युवकेभ्यः शिबिरानि इत्यादीनि उत्तम-विचाराः ॥

Monday, April 30, 2007

एकस्मिन् दिने बधिरः

अस्माकं परितः बहुविधजनाः । ये जनाः अस्माकं जीवन-मण्डले दृष्यन्ते, तेषां परिचयः भवेत् । प्रतिदिनं वयं दैनन्दिक-कार्यं कुर्वन्तः , बहुविधजनाः नयन-गोचरे सन्तः, हृदय-गोचरे असन्तः अपरिचिताः सन्ति । एकः निवेदकः (यः वार्तापत्रिकया वार्तां निवेदयति) बधिर-जीवनं अनुभवितुं , स्व-कर्णयोः पिधानं कृत्वा, बधिरैः सह एकस्मिन् दिने व्यवहृतवान् । प्रवृत्तस्य घटनस्य वार्ता-निवेदनं अत्र पठितुं शक्यते । अपरस्य पदचिह्नं दृष्ट्वाऽपि तस्य जीवन-स्थितिं न अवगन्तुं शक्नुमः । विना परिचयं , इतोऽपि क्लेशः । ये जनाः नयन-गोचरे व्यवह्रियन्ते , हृदय-गोचराह्वानं कुर्वाम ।