Wednesday, August 29, 2007

युद्धम् (फल-गुलिकाभिः)

विश्वे केचन युद्धाः प्रसिद्धाः -- महाभारतस्य, एवं प्रतम-द्वीतीय-विश्वयुद्धौ। किन्तु, पञ्चाषट्वर्षेभ्यः अन्यविधः युद्धः प्रतिवर्षं प्रचलत् अस्ति। अनन्तरं, रक्त-स्रोतः स्रवति, किन्तु शरीर-रुधिरं विना।

एस्पैन-देशे, ब्यूनोल्-नगरे, प्रति-वर्षं रक्त-फल-युद्धं प्रचलति (tomato-fight)। अस्य उत्सवस्य इतिहासः अज्ञातः। १२५,००० किलो-मितानि फलानि, ३०,००० जनाः, सर्वं निर्दिष्टे स्थले। घण्टाद्वयं यावत् क्षेपणं, प्रक्षपणं च प्रचलति। प्रथमनिमेषत्रयं यावत् फलानि, फलानि इव दृष्यन्ते। किन्तु, तदनन्तरं फलानि खण्डितानि भवन्ति। तथापि युद्धं अनुवर्तते। अत्र, उल्लेखन-मात्रात् प्रायेण न अवगन्तुं शक्यते। पश्यन्तु चलच्चित्रम् !

Monday, August 27, 2007

जाह्नवी

प्रपरश्वः जाह्नवी नाम्ना शिबिरम् आभरते ! उत्सुकिताः वयं सर्वे ! शताधिकाः भागवाहिनः, आदिनं सर्वमपि संस्कृतमाध्यमेन ! अन्यत् किं वा वक्तव्यम् ?

Saturday, August 25, 2007

धर्मश्रीः

संस्कृतभारती-द्वारा बहूनि संस्कृतपुस्तकानि प्रकाशितानि। तेषां प्रेरणात् बहवः संस्कृतज्ञाः अनुवादकार्ये (अन्यभाषातः) मग्नाः सन्ति। एतस्य आवश्यकता कृष्ण-शास्त्रिणा महोदयेन सम्भाषणसन्देशे पत्रिकायां सुस्पष्टतया वर्णिता अस्ति।

बैरप्प-महोदयस्य ख्यातिः कन्नद-भाषा-क्षेत्रे सर्वत्र प्रसारिता। तेन लिखितस्य "धर्मश्रीः" नाम्ना पुस्तकस्य अनुवादः संस्कृतेन अपि कृतः। २००५ वर्षे, तेन अनुवादेन "साहित्या-अकेदेमी" पारितोषितं प्राप्तम्। कदाऽपि पठामि चिन्तयन् गतवर्षे तत्पुस्तकं क्रीतम्। कतिपय-दिनेभ्यः पूर्वं पठनम् आरब्धम् . . . अद्य प्रथमावृत्तिः समाप्ता। पठनं समाप्तं इति न उक्तम्। चिन्तार्हे गाम्भीरविषये लिखितम् इदं पुस्तकम्।

कल्पितस्य सत्यनारायणस्य जिवन-कथा एषा। जीवनमध्ये, मतपरिवर्तनं कृत्वा, तेन काश्चन बाधाः अनुभूताः। अस्मिन् विषये अस्य सत्यनारायणस्य चिन्तनरीतिः, बन्धूनां, मित्राणां, सहोद्योगिनां, परितस्य समाजस्य प्रतिवचनं, प्रतिक्रिया च बोधितम्। एषः विषयः अस्माभिः अपरिचितः इति न। किन्तु, सर्वासां क्रियानां परिणामः कः इति सर्वदा विचारः न क्रियते। पुस्तक-पठनम् इदं निश्चयेन मतपरिवर्तने विचार-तरङ्गान् जनयति।

Friday, August 24, 2007

मित्राणि

संस्कृतद्वारा बहूनि मित्राणि लब्धानि, यद्यपि मुखपरिचयः नाभवत्। गतसप्ताहान्ते सदसि तेषु बहवः सदस्याः। तैः बहूभिः मिलित्वा महान् आनन्दः!

दूरात्, एकः ज्येष्ठकार्यकर्ता विमानेन आगच्छति। अहं तस्य चालकेन युक्तः। विमानपत्तने प्रतीक्षमानोऽहं, सः अदृष्टः। कथम् एतत् इति चिन्तयन् तं दूरभाषाम् अकरवम्। सः वदति--निर्दिष्टस्थले अस्मि--इति। सोऽहं तत्रैव अपि...कथम् एतत्? ज्येष्ठः मुख-वस्त्राणां वर्णनं कर्तुं कथं प्रष्टव्यः? आचारः न त्यक्तव्यः खलु! समीपस्थाः भारतीयाः बहवः। तेषु दूरवाण्या सम्भाषणं कुर्वन्तः द्वित्राः। एवं तर्हि, मया उक्तम् -- भवतः पृष्ठोऽस्मि, कृपया अर्धवृत्तिं करोतु, हस्त-कम्पमानं माम् अभिजानातु--इति। वस्तुतया तदनन्तरम् एव तस्य परिचयः मया प्राप्तः!!

Monday, August 13, 2007

आकाङ्क्षा रघुवंशे

पूर्वं, आकाङ्क्षा का इति अत्र लिखिता। अनेन एव क्रमेण जिनसमुद्रेण रघुवंशस्योपरि भाष्यं लिखितम्। उदाहरणं पश्यामः --

निवर्त्य राजा दयितां दयालुः
तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुः समुद्राम्
जुगोप गोरूपधरामिवोर्वीम् ॥२.३॥

दयालुः सः राजा तां सौरभेयीं जुगोप ररक्ष।
किं कृत्वा? दयितां निवर्त्य।
कथंभूतो राजा? यशोभिः सुरभिः श्रेष्ठः।
धेनुं कामिव? गोरूपधराम् उर्वीमिव।
कथंभूता उर्वी? पयोधरीभूतचतुःसमुद्रां, पयसा अधरीभूताः चत्वारः समुद्राः यस्याः सा, ताम्।
उर्वीपक्षे अपयोधराः पयोधराः सम्पन्नाः चत्वारः समुद्राः यस्याः सा, ताम्।

उदर-निमित्तं बहुकृत-वेषम्

अधुना दृष्यते यत् संस्कृतस्य हितजनसङ्ख्या वर्धमाना अस्ति। सङ्गणकजाले नूतन-लेखान्, पुटान्, इतिवृत्तपत्राणि च निरन्ततया रचयन्तः सन्ति। गूगल-द्वारा कमपि शब्दं पञ्जीकृत्य, यदा सः शब्दः अन्तर्जाले कुत्रापि आभाति, तदा विद्युत्-पत्रं प्राप्य पठितुं शक्यते। एवम् अहं "संस्कृतम्" "संस्कृतं" च शब्दरूपौ तत्र पञ्जीकृतवान्। अद्य एतत् पत्रम् प्राप्तम्। संस्कृत-लोकोक्तिः -- उदर-निमित्तं बहुकृत-वेषम् -- तस्याः किञ्चित् अनुवाद-प्रयत्नः कृतः। उक्तेः सरल-भावः -- बुभुक्षितेन किमपि कर्तुं शक्यते इति। उदरं इति आकाङ्क्षां मत्वा, इयम् उक्तिः किं वेदान्तसत्यं न सूचयेत्?

मेलनम्

सप्ताहान्ते, किञ्चन वार्षिक-सदस् अत्र भविष्यति। उप-२० सदस्याः भागं स्वीकरिष्यन्ति, अतः सर्वं अपि गृहेषु एव कुर्मः. . . सदसः प्रकोष्ठस्य आवश्यकता सर्वथा नास्ति। केषाञ्चित् जनानाम् रचना, तस्यां सम्यक-करणे तु बहु समयः आवश्यकः! कियत् समयः आवश्यकः तु प्रथमकरणे एव स्पष्टतया अवगतम्। किन्तु, यत् अत्र भवति, तत्तु लघुरूपेण। पूर्वं बहुषु सदस्सु मया भागः स्वीकृतः। तत्रत्याः चालकाः कियत् कार्यं अकुर्वन् तु इदानीम् एव अभिजानामि।

Wednesday, August 01, 2007

स्तरः कः

किमपि कार्यं सततं कुर्वतः स्फलता तु भवत्येव। किन्तु तदन्तरे अफलतां मनसि निधाय, ध्यानं कुर्वतः आशाभङ्गः एव भवति। तर्हि सज्जनवता कर्मयोगिना भवितव्यम्। किन्तु, अहं शान्ति-मूर्तिः नास्मि। यद्यपि संस्कृतपठनं दैवकार्यम् , परस्य साधनं कदा भवेत् इति चिन्तनम्। ततः यदा ग्रन्थालयं गतः, पुराणौ स्वीकृतौ। किमपि अवगन्तुं शक्यते वा इति प्रश्नः। आश्चर्यचकितोऽहम्। भावः तु किञ्चित् अवगन्तुं शक्यते। यत्र सन्देहाः वर्तन्ते, अधो लिखितं आङ्ग्लानुवादं पठित्वा, अवगन्तुं शक्यते। मम सुखस्य पारः एव अज्ञातः तत्क्षणे। ज्ञातम् यत् --
  1. संस्कृतं पठित्वा अवगमनं, अनुवादं पठित्वा अवगमनं, तयोः महदन्तरम्। अनुवादेन रसबोधनं कठिनम्।
  2. यत्र मूलावगमनं कठिनम् , तत्र अनुवादं पठित्वा संस्कृतस्य पुनःपठनं--तस्य महान् लाभः। यतः सूक्ष्म-भावः तु कृत्रिमे कदाऽपि न भवत्येव।
  3. छन्दसि लिखितं, तस्य अनुवादं कः लेखितुं समर्थः?

Sunday, July 29, 2007

लास-वेगस्

दिनत्रयानन्तरं उद्योगे विरामदिनं भवति इति ज्ञात्वा, झटिति लास-वेगसं गमिष्यावः इति निश्चितम्। त्वरया विमान-चितिकां क्रीत्वा, वास-व्यवस्था अपि सिद्धीकृता। आवयोः द्वयोः अपि प्रथमगमनं तत्र प्रति। एवं, किम् अपेक्षणीयम् इति अज्ञातम्। विश्वे प्रसिद्धम् अक्षप्रियस्थलं तु एतत् एव। तस्य ख्यातिः तु सर्वत्र प्रसृता। अस्य स्थलस्य उद्देश्य-वाक्यं अस्ति--लासवेगसि प्रवृत्तम्, अत्रैव स्थीयते--इति। एवं न केवलं अक्षक्रीडा, गोचर-ग्राहकाः, इन्द्रिय-उत्तेजकाः प्रदर्शिन्यः सर्वत्र वर्तन्ते।

उदाहरणम् यथा--इन्द्रजालिनः तु सर्वत्र सन्ति। सामान्यतया ते किञ्चन वस्तु प्रदर्श्य, तस्य अन्तर्धानं कारयन्ति। तदेव लासवेगसि अपि। किन्तु सामान्यवस्तूनां अन्तर्धानं न कारयन्ति। बृहतः उन्नतस्य स्थूलस्य वस्तुनः एव अन्तर्धानं कारयन्ति . . . यतः एवं वस्तु ते इन्द्रजालिनः कुत्र वा गोपयन्ति?

लासवेगसि, एकः प्रधान-मार्गः, यस्य द्वयोः अपि पक्षयोः विविधानि अक्षस्थलानि। जनान् आक्रष्टुं एवं व्यवस्था कृता। प्रतिभवनं किमपि विषयम् उद्दिश्य, सम्बद्ध-वस्तूनि, चित्राणि सर्वाणि स्थापयन्ति। कथम् एतत्?

पुरा ईज्यिप्त-देशे राज्ञां त्रिकोणाकार-भवनानि प्रचुराणि आसन्। अतः अत्र लासवेगसि अपि एकं भवनं तथा एव निर्मितम्। अन्ते भित्तौ अपि सम्भद्ध चित्राणि एव, यथा कोऽपि चिन्तयेत्--अहं तु ईज्यिप्त-देशं गतः--इति। एवं न्यूयार्क्, प्यारिस्, ग्रीस्, अन्यानि स्थलानि उद्दिश्य भवनानि निर्मितानि। कल्पन-शक्तिः अस्ति चेत्, किमपि कर्तुं शक्यते मानवैः। किन्तु, अत्र लासवेगसि, तामस-स्वभावान् एव भोजयति सर्वम्। तथापि विश्वस्य गम्येषु स्थलेषु अन्यतमं तु लासवेगस् एव!

विश्ववाणी

युवकानां कल्पनशक्तिः, स्वप्नशक्तिः, उत्सुक्ता च श्रेष्ठतरा। कतिपय-वर्षेभ्यः पुर्वं अमेरिका-देशे सम्भाषण-संस्कृत-कार्यम् आरब्धम्। तस्य परिणामः कः? बहूनां व्यवहार-संस्कृत-ज्ञानम्। अपि च, एका युवती सौम्या नाम्ना कार्यकर्त्री अस्मिन् वर्षे संस्कृताय सम्पूर्ण-समयार्पणम् कुर्वती अस्ति। एवं बहूनां भारतीय-युवकानां, या रुचिः अन्तर्हितम् आसित्, अद्यत्वे तस्याः प्रकटनम्। बहूनि प्रयत्नानि प्रचलन्ति। तेषु अन्यतमम्--विद्यालयीयानां छात्राणां नूतना पत्रिका, विश्ववाणी नाम्ना, संस्कृत-माध्यमेन! तस्याः पत्रिकायाः सम्पादिका का? सा एव सौम्या जोयिसा!