Wednesday, December 02, 2009

ब्रह्मयज्ञम्

द्विजानां नित्यकर्माणि बहूनि वर्त्तन्ते। सर्वत्र वैदिकमन्त्राः प्रयुक्ताः इत्यस्मात् अनुपनीतानाम् अधिकारः न वर्त्तते इति केषाञ्चन मतम्। भवतु। यथा उपनीतानां वैदिककर्माणि वर्त्तन्ते, अनुपनीतानां पौराणिककर्माणि अपि वर्त्तन्ते। समानता तु अस्त्येव।

एषु कार्येषु अन्यतमं ब्रह्मयज्ञं नाम। मुख्यतया, अधीतस्य पुनरावृत्तिः क्रियते। वेदपण्डिताः प्रतिदिनं वेदस्य किञ्चित् भागं जपन्ति। अन्ये शास्त्रविदः शास्त्रपठनं कुर्वन्ति। केषुचन प्रान्तेषु सर्वे श्रावण-पौर्णिमायां संकल्पं कुर्वन्ति -- अग्रिमवर्षेण अमुक-ग्रन्थं पठामि इति। तदनुसारं गीतां, पुराणं, अन्यत् वा पठन्ति। बहुत्र संस्कृतम् अज्ञात्वा कुर्वन्ति च।

यदि वयं संस्कृतज्ञाः पुनः ईदृशम् आचरामः, महान् लाभः भवति। जीवने कति वा विविधान् रुचिकरान् ग्रन्थान् पठितुं शक्नुमः। संस्कृतं रक्षणीयं चेत्, प्रतिदिनं संस्कृतस्पर्शः आवश्यकः। श्रवणं, भाषणं, पठनं, लेखनम्। पठने ब्रह्मयज्ञः नाम कश्चित् मार्गः। सः तु महान् यज्ञः एव।

Wednesday, October 28, 2009

शास्त्र-पठन-पद्धतिः

अद्यत्वे, बहुत्र भारतीयानां एकमतं -- संस्कृतं किमर्थम्? संस्कृतं तु साधनमात्रं, न तु साध्यम्। आयासः साध्यमात्रे भवतु -- इति। पुरा, साधनं कृत्वा, अधिकारं लब्ध्वा, सर्वेऽपि अग्रे सरन्ति। सा पद्धतिः लुप्ता जाता। साधनं नाम तद्वस्तु यत् लक्ष्यं प्रति सोपानायते। न तु वृथा किञ्चिदपि। किन्तु वक्रचिन्तनं सर्वत्र प्रसृतम्।

संस्कृतेन सूक्ष्मतया विस्तारेण स्पष्टतया चर्चितान् विषयान् अधिकर्तुं संस्कृतभाषा प्रबला। अनेन भाषान्तराणाम् उपेक्षा न क्रियते, प्रत्युत, देवभाषायाः आवश्यकता दर्शिता। तथैव, बहवः वेदान्तं पठितुम् इच्छन्ति। दर्शनानि षट्, येषु उत्तरमीमांसा (वेदान्तं) अन्तेस्थिता। नाम, पूर्वं अन्यशास्त्राणामपि परिचयः अत्यावश्यकः भवति। किन्तु तत्रापि उपेक्षा एव क्रियते।

लक्ष्यं मनसि निधाय एव साधनं करणीयम्। भूयपण्डितानां लक्ष्यं, अस्माकं च लक्ष्यं भिन्ने एव। महदन्तरं वर्त्तेत। तथापि, लक्षणं भिन्नम् इत्यस्मात्, सर्वमपि साधनं अनावश्यकम् इति विफलता-जनक-चिन्तनम्।

कुत्रचित्, वेदान्त-पठनस्य उपस्थापनं दृष्टम्। तत्र आचार्यस्य बोधनं यत् "वयं नूतनपद्धत्या पठामः"। तत् च किम्? ते साधनं कारयन्ति, षट्-शास्त्राणां अपि किञ्चित् अत्यावश्यक-भागं पाठयन्ति। नाम उपेक्षा-निवारणम्। एतादृश-प्रयासाः अपि उत्तमाः इति भाति।

Monday, October 19, 2009

दश-वाक्यानि

प्रायेण पठितारः संस्कृत-भार्त्या परिचिताः। बहवः कार्यकर्तारः साप्ताहिक-वर्गान् चालयन्ति। तत्र, भाषा-कौशल-विकसनार्थं सर्वैः कानिचन वाक्यानि वक्तव्यानि भवन्ति। आदौ तु तानि सरलानि भवन्ति, कालेन नूतन-प्रयोगाः प्रयुज्यन्ते। शिक्षकः कृतसंकल्पः, यथाशक्ति पाठयति, तस्य किञ्चित् प्रधानतन्त्रं दशवाक्यानि नाम इदमेव। तत् तु डोला इव।

आदौ छात्राः भीताः लज्जया वदन्ति, स्तरवर्धनार्थं लिखित्वा वर्गे पठन्ति। अनन्तरं दृढविश्वासाः ते एव क्लिष्टकरप्रयोगान् उपयुज्य कथाः लिखन्ति, वर्गे पठन्ति ... किन्तु तैः स्वलिखितं पठितुं एव क्लेशं अनुभवन्ति। तदा तु पुनः कण्ठात् वक्तव्यम् इति निमयः आनीयते। एवं एव तैः दशवाक्यैः पठनं, लेखनं, नूतन-प्रयोगान्वेषणं, नूतन-प्रयोग-दृढीकरणं -- सर्वमपि शक्यम्।

केनापि महत्त्वमिदं बोधितं सद्यः। तदा तु दुःखं एव मम आविरभवत्। सप्ताहे दशवाक्यानि नाम कियत् समयं वा अपेक्षते। यदि संस्कृते एव व्यवहारः प्रतिदिनं किञ्चित् वा क्रियते मित्रमण्डले, प्रगतिः कियत् वा स्यात्? कथं वा कदा वा ईदृशं परिवर्तनं समाजहृदये दृश्येत?

संस्कृत-माध्यमम्

कस्यापि भाषायाः चत्वारि सोपानानि नाम -- श्रवणं, भाषणं, पठनं, लेखनं चेति। काले अतीते, कथमपि विपरीतम् अभवत् -- ऊर्ध्वमूलम् अधः शाखं यथा। अद्यत्वे, विभिन्नमाध्यमैः संस्कृतप्रचारः प्रवर्तते। तेषु अन्यतमः अन्तर्जालोऽयं, सर्वेषां तृणान्दोलनानां आश्रयः। आदौ अन्तर्जाले लिपिमाध्यमेनैव कार्यं क्रियते। अधुना न तथा -- ध्वनिप्रवाहः, चित्राणि, चलच्चित्राणि च प्रचुरणि। संस्कृतक्षेत्रेऽपि तादृशी आद्यता आनेतव्या। सद्यः मित्रेण तत्राऽपि प्रयासः क्रियते। सोऽपि जालपुटे स्ववाचा संस्कृतध्वनिम् आरोपितवान्। अवश्यं पुटोऽयं वर्तते इति वार्ता दाववत् प्रसृतं भवति। सर्वे प्रतिदिनं शृण्वन्तु, एतादृशान् पुटान् निर्मान्तु च इति अभिलाषः। संकेतः http://vaak.wordpress.com पार्श्ववर्तिन्यां मञ्जूषायामपि सन्निहितः।

Thursday, August 06, 2009

श्रावण-पौर्णिमा

ह्यः श्रावण-पौर्णिमा आसन्ना। तस्मिन्नेव मुहूर्ते, सर्वैः अपि द्विजैः वेदाध्ययनम् अनुवर्त्तनीयम्। अग्रिमदिवसे (अद्य नाम) संवत्सरप्रायश्चित्तम् अपि क्रियते। गायत्रीमन्त्रस्य अष्टोत्तरसहस्रावृत्तयः। बहुत्र बहुधा बहूनां गायत्र्युपदेशः क्रियते बाल्ये। किन्तु साधना विरला। यत्र उपासना दृढा, तत्राऽपि बहुधा मन्त्रार्थम् अविचार्य कर्तव्यतावशात्।

लेशमात्रमन्त्रार्थः तु बहुषु ग्रन्थेषु, अन्तर्जालादिषु अपि प्रकाशितः। किन्तु ततः न काऽपि तृप्तिः। अन्विष्टे सति, नानाः व्याख्याः उपलब्धाः। भाति यत् तस्य एव मन्त्रस्य अर्थः नानाविधः, साधकाधिकारवशात्। सः एव मन्त्रः सगुणेश्वरत्वेन निर्गुणेश्वरत्वेन अपि उपास्यते। अतः एव सर्वैः अपि द्विजैः उपासनीयः एव, अपवादं विना।

ज्ञानेश्वरः सुविख्यातः। तेन गीतायाः प्रसिद्धव्याख्या रचिता मराठभाषया। तस्य संस्कृतानुवादः लभ्यते, गीर्वाणज्ञानेश्वरी इति अभिधीयते। पद्यात्मकं मूलग्रन्थपदैः। अतः अस्माभिः अपि अर्थः आस्वादयितुं शक्यः। कश्चित् श्लोकः यः मह्यं रोचते --

ब्रुवतेऽनुभवस्यापि वाचालत्वेन ये कथाः ।
तेषां परीक्षासमयेऽनुभवो निष्फलो भवेत् ॥ ८-१३९

बहवः अनुभूतम् इति व्याजेन नटन्ति। वास्तविकं भिन्नम्। अस्माभिः उपासनया विश्वतथ्यं साक्षात्करणीयम्। तदर्थं पौनःपुण्येन सवितारं भावयामः। यदि भक्तिः असहजा, उपसनां कुर्मः निष्कपटभक्तिं च प्रार्थयामः।

Monday, August 03, 2009

मोक्षस्य कारणम्

प्रश्नः यः पौनःपुण्येन पृच्छ्यते -- मोक्षस्य कारणं कर्म वा ज्ञानं वा इति। अद्वैतिनां मतं यत् कर्मयोगद्वारा चित्तशुद्धिः, पुनः ज्ञानेन अविद्यानाशः। सः एव भावः योगवासिष्ठायाम् अपि आदौ प्रतिपादितम्।

अगस्तिः वदति --
उभाभ्याम् अपि पक्षिभ्यां यथा खे पक्षिणां गतिः।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम्॥

तात्पर्यं व्याचष्टे -- कर्मणां पूर्वभावः तु प्रवृत्ति-निवृत्तयोः युगपत् असम्भवात् विरुद्धाधिकारि-विशेषणकत्वात् च अर्थसिद्धः इति न यौगपद्यांशे दृष्टान्तः। यथा दर्पणे प्रतिबिम्बोदये मार्जनालोकौ द्वौ अपि आवश्यकौ तद्वत् कर्मकृतचित्तशुद्धिः प्रमाणजन्यवृत्तिः च अविद्यानिवृत्तौ आवश्यके अशुद्धचित्तैः शतशः श्रुतेऽपि ज्ञानफलात् अदर्शनात् इति भावः॥

अतः कर्मयोगः च ज्ञानयोगः च पक्षिणः द्वौ पक्षौ, अधिकारभेदात्। यत्र श्रेष्ठतरः योगः उच्यते, गीतायां अन्यत्र वा, अधिकारं मनसि निधाय एव उत्तरम् अपेक्षितम्। कर्मयोगः ज्ञानयोगः इत्येवं सोपानायते यथा दर्पणे प्रतिबिम्बदर्शनार्थं मार्जनम्, आलोकः च।

श्रद्धावान् -- गीता

गीतायां (६-४७) उच्यते -- यो मां मद्गतेन अन्तरात्मना श्रद्धावान् भजते, सः मे युक्ततमो मतः -- इति।

ज्ञातं सन्नपि उच्यते -- उपदेशः उत्तमः इति। कर्मयोगिभिः अत्र कृष्ण-पदस्य स्थाने, साधु-पदाश्रयः अपि स्यात्। साधु यथा -- परित्राणाय साधूनाम्। साधु-पदं विशेषणं, न तु विशेष्यम्। विशेष्येषु संस्कृतम् अपि अन्यतमं किमर्थं न? यः संस्कृतं भजति, सः युक्ततमः। केन कथंभूतः सन् भजति?

वेङ्कटनाथ-भाष्यम् -- राजानं भजते भृत्यः, तद्वत् एव किं तव भजनं? तत्र आह -- गद्गतेन अन्तरात्मना मयि प्रेमासक्तेन मनसा इत्यर्थः। भृत्यस्य हि स्वभार्यायां मनः, राज्ञि भजनम्। क्वचित् दानमानादिना राजासक्तः भृत्यः तद्गतेन एव अन्तरात्मना तं भजते, ततः तत्साधारणं व्यावर्तयितुं श्रद्धावान् इति॥

विद्वान् न केवलं संस्कृतं भजते, किन्तु प्रेम्णा भजते। पुनः प्रेम फलापेक्षया न, किन्तु निःस्वार्थभावनया। कृष्णः यथा भजनीयः, साधु संस्कृतं अपि तथैव भजनीयम्। किमपि अनपेक्षमानः प्रेम्णा। अपि, अहं संस्कृतमातुः सरस्वतीदेव्याः कर्मफलापेक्षां विना सेवां करवाणि?

पश्चिमे भारते वा गौरवम्?

मित्रेण श्रुतम् इदम् -- भारते लघुतमेऽपि ग्रामे सर्वे विद्युत्सङ्केतं (email) कुर्वन्ति, यद्यपि सङ्गणककुशलता न स्यात्। विपण्यादीषु पृष्टे सति, सङ्केतं दीयते। किन्तु तद्द्वारा सम्पर्कः असम्भवः, यतो हि पठिता नास्ति। अरण्ये रोदनम् यथा। बहुधा, वयम् अमेरिका-वासिनः कमपि भारतीयग्रन्थं क्रेतुम् इच्छामः। लघ्वापणस्य विद्युत्सङ्केतं प्रति पत्रं प्रेष्यते, किन्तु कुतोऽपि न प्रत्युत्तरितम्। इदानीं मूलकारणं ज्ञातम् ! दूरवाणी एव बलवत्तरा।

किमर्थम् आचारोऽयम्? यतः सर्वेऽपि आधुनिकाः भवितुम् इच्छन्ति। आधुनिकः नाम पाश्चात्यः ननु? अस्माकं गूढेतिहासं श्रुत्वा सदा चिन्त्यते, अहं पश्चिमे स्थिते मम अनुरागः भारते। अन्ये भारते स्थिते तेषां अनुरागः पश्चिमे। अहो बत! विचित्रोऽयं विधाता।

एकदा केनाऽपि अहं पृष्टः -- किमर्थं संस्कृतेन इतिवृत्तलेखनम् -- इति। तदा उत्तरितं -- विभिन्नभाषाभिः अन्तर्जाले एतादृशलेखनम्। आहत्य, प्रत्येकं सप्त-पठितारः स्युः। प्रतिदिनं मम पत्रस्य अष्टपठितारः स्युः। अहो संस्कृतस्य प्रभावः यत् कश्चनः अधिकः पठिताऽपि स्यात्!

आदौ लेखनाभासाय पुटम् इदम् आरब्धम्। ततः मङ्गलवचनानि, मित्रप्राप्तिः, लेखने काचित् वृद्धिः -- फलानि अनेकानि। अतः एव भाषावर्गे सदा निवेद्यते -- यदि पठितॄणां गणनां विना लिख्येत, प्रभावः तु भवति एव। दोषाः तु सहजाः। तत्र यदि पठितृभिः मार्गदर्शनं क्रियते, अनुगृहीतो भवामि।

Friday, July 31, 2009

उष्णस्पर्शः

गतसप्ताहे, मदागारपरिसरः उष्णासन्नः, यादृक् आक्षपटलिकैः न स्मर्यते। सामान्यसंवत्सरे ग्रीष्मर्तौ सप्ताहः यावत् उष्णतया पौराः उत्क्लिष्टाः, यस्मात् गृह-भोजनायलादिषु शीतकानि न स्युः। गतसप्ताहे परिसरवायुः स्थायी, सूर्यतापः अधिकः, वायुः आद्रीभूतः। अनेन सर्वेऽपि स्वेदक्लिन्नवस्त्राः, चलच्चित्रमन्दिरादि-शीतलस्थल-गताः, कारयानभ्रमकाः। परिवारविहीनाः सर्वे आदिनं कार्यालये मग्नाः। स्वदेहं न केवलं चिदग्निस्थम्, अपि तु तापजनकम्। यस्मात् अत्रत्य-मित्रमण्डलादिषु परस्परप्रेक्षणं सर्वैः निवारितम्। चलच्चित्र-मन्दिरम् अरिक्तासन्दम्। पुनः परेद्युः कोऽपि आदान-प्रदान-उत्सवः इव सर्वेऽपि शीतकस्थ-आपण-विपण्यादयः सम्मर्दग्रस्ताः -- केचन गृहभक्ष्यहस्ताः तत्र स्वैरं भक्षयन्ति अपि !

अहो बत ! मर्त्यनिर्बलता सम्यक् परीक्षिता। अन्यदा वयं घटकाराः इव भूतलराजानः इति भावनया विराज्यते। किन्तु वयं क्व, प्रकृतिः च क्व इति किञ्चिदेव तापाधिकतया बोधितम्। परीक्षा सामर्थ्यदर्शिनी।

Thursday, July 30, 2009

विश्ववाणी

विश्ववाणी इत्यनेन मूर्छितः। भारते बहुश्रमेण संभाषणसन्देशादयः पत्रिकाः प्रकाश्यन्ते। अस्मिन् अपि अमेरिकादेशे विश्वविद्यालयीयैः पत्रिका प्रकाशिता। किमेतत् सम्भवम्? न विश्वसिमि। न केवलं तत्, किन्तु लेखकसामर्थ्यवर्धनम्। बहुत्र कोशाश्रयः करणीयः मया। यथा सन्देशः प्रतिमासम् प्रतीक्ष्यते, तथैव इयं विश्ववाणी-पत्रिका। तस्य सङ्क्तेतं तु भवद्सकाशे वर्तते एव। तथाऽपि अत्र सूच्यते -- http://www.speaksanskrit.org/vishvavani.shtml