Sunday, August 13, 2006

सुभाषितम् - सकृत् सकृत्

सकृत् जल्पन्ति राजानः सकृज्जल्पन्ति साधवः ।
सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥

राजानः (राजन्, १, बहु) - kings जल्पन्ति - speak (order) सकृत् - once. साधवः (साधुः, १, बहु) - renunciates जल्पन्ति - speak (advice) सकृत् - once. कन्याः (कन्या, १, बहु) - daughters प्रदीयन्ते - are given [in marriage] सकृत् - once. एतानि (एतत्, २, बहु) - these त्रीणी - three [should be done] सकृत्-सकृत् - once and only once.

Kings speak their orders but once;
Sadhus speak their advice but once;
Daughters are given in marriage but once;
These three should be once and only once.

1 comment:

m r rao said...

सकृज्जल्पन्ति राजानः इति। अहो कियती शान्तिः वर्तेत यद्येवं भवेत्‌! किंतु आधुनिकराजकीयनेतारः वर्षासु भेकाः इव सदा असंबद्धं आरटन्ति!
सकृत्‌ कन्याः प्रदीयन्ते इति। पुस्तकं वनिता वित्तं परहस्तगतं गतं। अथवा पुनरायाति जीर्णं भ्रष्टा खण्डशः॥ इत्युक्त्या स्त्रीः अल्पीकुर्वन्तः अभिप्रायाः नूनं कस्यचित्‌ दृप्तशौकरपुरुषस्य (MCP) भवेयुः! न स्त्री स्वातन्त्र्यं अर्हति इति मनुनियमस्य विरुद्धेन आधुनिके स्त्री वारं वारं वरयितुं स्वातन्त्र्यं अर्हति!