Friday, September 01, 2006

सुभाषितम् - दुर्लभः योग्यकः

नाक्षरं मन्त्ररहितं न मूलं नौषधिम् ।
अयोग्यपुरुषं नास्ति योजकः तत्र दुर्लभः ॥

न - there is no अक्षरं (१) that is मन्त्र-रहितं (मन्त्रं) - forsaken in mantra, न - nor मूलम् (२) - root which is न - not present in [some] औषधम् (२) - medicine. [So also] नास्ति - there is no अयोग्य-पुरुषं (पुरुषः, २) - useless person तत्र - there दुर्लभः - unlucky (inefficient) योजकः - user (manager).

There is no letter forsaken in all mantras;
there is no root which cannot be used in some medicine;
So also, there is no useless person;
Only the ignorant one who cannot use what he has.

01 June 05: http://www.geocities.com/prashanth_k_blr/Subhashitani/

2 comments:

m r rao said...
This comment has been removed by the author.
m r rao said...

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधं।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥
इति पाठान्तरं।
अमन्त्रमक्षरं नास्ति इत्यस्य व्याख्यानं श्रीहरिपादप्राप्तैः श्रीकाञ्चीमठाधीशैः (पेरियवर्‌) अनया कथया कृतं।
कश्चित्‌ राजा। तस्य कश्चित्‌ द्विजोत्तमः प्रधानमन्त्री। अरैः सन्धार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः। स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते॥ इत्युक्त्या प्रजाहितैकतत्परौ तौ राज्यकार्यं निर्वाहितवन्तौ। एकदा स राजा प्रधानमन्त्रिणं पृच्छति गायत्रीमन्त्रोपदेशं मह्यं देहि इति। प्रधानमन्त्री अवदत्‌ राजन्‌ भवान्‌ मम अन्नदाता। राज्यकार्येषु भवतः दासोऽहं। किंतु गायत्रीविद्याप्रदानविषये तु स्वधर्मनियमैः बद्धोऽस्मि। सा विद्या अपात्रेभ्यः न प्रतिपादनीया। अतः भवान्‌ मां क्षन्तुं अर्हति इति। तत्‌ श्रुत्वा असन्तोषं अदर्शयन्‌ स राजा तथाऽस्तु इति अब्रवीत्‌। राज्ञः पाकशालाधिकारी अपि कश्चित्‌ द्विजः। राजा तं आहूय गायत्रीमन्त्रोपदेशं मह्यं देहि इति अपृच्छत्‌। न दातव्यं इति जानन्नपि राजकोपभयात्‌ स द्विजः राज्ञः मन्त्रदीक्षां अकरोत्‌। अनन्तरं राजकार्यनिर्वाहसमये प्रधानमन्त्रिणं राजा अवदत्‌ गायत्रीमन्त्रदीक्षां लब्धवानस्मि इति। अविस्मितः स वदति व्याहरतु इति। राजा व्याहरति। को भवन्तं दीक्षितवान्‌ इति प्रधानमन्त्री राजानं अपृच्छत्‌। पाकशालाधिकारी इति राजा। तं आनयतु इति प्रधानमन्त्री द्वारपालं आज्ञापयति। उपस्थिते पाकशालाधिकारिणि गायत्रीमन्त्रं व्याहरतु इति तं स वदति। पाकशालधिकारिणा व्याहृतमन्त्रं श्रुत्वा स वदति राजन्‌ एतत्‌ गायत्रीमन्त्रं न च यत्‌ भवता गदितं इति। अत्यसन्तोषेण मौनं आश्रितं राजानं हस्तेन उद्दिश्य द्वारपालं आहूय एनं कारागृहे क्षिपतु इति स प्रधानमन्त्री आज्ञापयत्‌। राजद्रोहेण क्रोधाविष्टः स राजा प्रधानमन्त्रिणं हस्तेन उद्दिश्य तमेव द्वारपालं आदिशत्‌ एनं कारागृहे क्षिपतु इति। द्वारपालः राजाज्ञया तं कारागृहे अक्षिपत्‌। शान्ते कोपे अतिविश्वसनीयस्य सौशील्यवतः भृत्यस्य अत्याचारस्य कारणं ज्ञातुं राजा कारागृहं अगच्छत्‌। राजानं दृष्ट्वा बन्दीकृतः प्रधानमन्त्री अवदत्‌ राजन्‌ एनं कारागृहे क्षिपतु इति अहं उक्तवान्‌। भवानपि तदेव वाक्यं उक्तवान्‌। किंतु तयोः भवतः वाक्यं एव अफलत्‌ यतः तद्वाक्ये राजा एव प्रमाणं। एवं अक्षरेषु मन्त्रशक्तिः गूढा वर्तते यानि आप्तपुरुषमुखात्‌ यदा व्याहृतानि भवन्ति तदा एव सा अविर्भवति इति।