Wednesday, March 28, 2007

वासपरिवर्तनम्

अद्य, नूतन-भाटक-गृहे वासम् आरब्धम् । पुरातन-गृहात्, नूतनगृहं नयनगोचरे अस्ति । बहूभिः जनैः उक्तम् -- परिवर्तनं सरलं भवेत्, यतः दूरं न गन्तव्यम् । किन्तु , दूरं वा समीपं वा, बहूनी कार्याणि करणीयानि । प्रतिजनं तस्य परिष्कारं कुर्यात् । कोऽपि अन्यं दृष्ट्वा मा वदेत् -- तस्मै सरलम् । सर्वेषां स्थितिः एका एव । क्रमेण पदम् अग्रे स्थापनीयम् । जनहितार्थं कष्टं सहनीयम् । लक्ष्यं प्रति गन्तव्यम् ।

वास-परिवर्तन-साहाय्यार्थं भारवाहकः युक्तः । सः आगमन-समयात् अर्धघण्टा-पूर्वः आगतः । सद्यः कार्यं आरब्धम् । षट्-घण्टानां कार्यं कृतम् । अन्ते तेन उक्तम् -- पञ्चघण्टानां कार्यं कृतम् इति । शीघ्रं आगतम्, सद्यः कार्यं कृतं, धारावत् कृतं, किन्तु पूर्वपरयोः गणना अकृता ।

सामान्यतः कार्यक्षेत्रं विलम्बेन प्राप्य, कूर्मवत् कार्यं कुर्वन्तः, काफीं पिबामः । मया बृहत् कार्यं कृतम् इति चिन्तयन्तः, शीघ्रं गृहं प्रति गच्छामः । किन्तु , कार्यं भारवाहकवत् करणीयम् -- सलक्ष्यं पौनपुन्येन गणनं विना ॥

No comments: