Saturday, March 24, 2007

क्त-क्तवतू

गत-सप्ताहात्, एकस्मिन् याहू-गणे, क्त-क्तवतू-प्रत्ययोः चर्चा प्रचलन् अस्ति । अन्येषां पत्राणि पठित्वा मया अभिज्ञातं यत् एतस्मिन् विषये मम ज्ञानं शून्यम् इति । परिष्काराय, कानिचन पुस्तकानि पठिनानि --

क्तप्रत्ययान्तस्य शब्दरूपं पुंल्लिङ्गे देव-शब्दवत्, स्त्रीलिङ्गे लता-शब्दवत्, नपुंसके फल-शब्दवत् भवति । यथा - कृतः कटः । दृष्टा लता । पठितं पुस्तकम् । क्तवतुप्रत्ययस्य च शब्दरूपं पुंल्लिङ्गे गोमत्-शब्दवत्, स्त्रील्लिङ्गे नदी-शब्दवत्, नपूंसके जगत्-शब्दवत् भवति । यथा -- पठितवान् बालः । पठितवती बालिका । गतवत् कुलम् ॥

क्तक्तवतूनिष्ठा -- भूतकाले धातोः क्त-क्तवतू प्रत्ययौ स्तः । तत्र क्तवतु-प्रत्ययः कर्तरि, क्त-प्रत्ययस्तु भावकर्मणोः एव सम्पद्यते । एवञ्च -- क्त-क्तवतुप्रत्ययान्तः शब्दः भूतकालिकक्रियायाः वाचकः सन् कस्यापि मुख्यवस्तुनः विशेषणीभूतार्थप्रतिपादकः भवति, यथा -- भुक्तः ओदनः, कृतः कटः, इद्यादि ॥

अयं च नियमः सकर्मकधातुस्थले एव, अकर्मकधातुस्थले तु भावे एव क्तप्रत्ययः भवति, क्तप्रत्ययान्तश्च शब्दः नपुंसकलिङ्गः भवति । यथा -- हसितम् , शयितम् , इत्यादि ।

( क्तवतुप्रत्ययः तु सर्वथा कर्तरि एव भवतीति न विस्मर्तव्यम् )
विमर्शः -- क्वचिद् गत्यर्तकात् अकर्मकात् श्लिषः उपसर्गविशिष्टेभ्यः शीङ्-स्था-आस्-वस्-जन्-रुह्-जॄ-धातुभ्यश्च कर्तृवाच्येऽपि क्तप्रत्ययः भवति ।

यथा - गङ्गां प्राप्तः मुनिः । ग्लानः सः । लक्ष्मीमाश्लिष्टः हरिः शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः पाणिनिः । उपोषितः भक्तः । राममनुजातः लक्ष्मणः । गरुढमारूढः विष्णुः । विश्वमनुजीर्णः ॥

पूजेच्छा-ज्ञानार्थकधातुभ्यः मतिबुद्धिपूजार्थेभ्यश्च वर्तमानकाले भवति । यथा -- अयं सतां पूजितः । मम देवः पूजितः ॥

(अनुवर्तनम्)

No comments: