Thursday, April 05, 2007

प्रपातः

लासवेगस् नगरे नूतन-दर्शन-मञ्चकं निर्मितम् । बृहतः प्रपातस्य ४००० फीत् परिमितस्य उपरि स्थापितम् एतत् । ततः दर्शकाः प्रपातं सम्यक् द्रष्टुं शक्नुवन्ति । आशीर्वचनानन्तरम् उद्घाटितम् एतत् । किन्तु आक्रोशः अपि श्रुतः -- प्रकृति-प्रदर्शनाय प्रकृति-नाशनं किमर्थं कृतम् -- इति । मञ्चकं प्रधानतया धनसम्पादनाय निर्मितम् । तत्रत्यवासिनः सर्वे निर्धनिकाः । अधुनाऽपि जलं यानेन आनीतं भवति । जनाः तत्-क्षेत्रं प्रवेशयन्ति चेत्, तैः सह धनं वहति इति आशा । तस्मिन् क्षेत्रे श्मशानाः सन्ति । तत्रत्यवासिनः सामान्यतः तत्र प्रति गमनानुमतिं कमपि न ददति । किन्तु , दारिद्रतायां पुरातन-नियमानां अतिक्रामः भवति नाम . . .

2 comments:

Himanshu Pota said...

भवतः लेखपत्रः प्रथमवारं दृष्टः|भवतः परिचयः कृपया ददातु|
भवान् अतिसुन्दरान् लेखान् लिखति| अहं प्रतिदिवसे भवतः अल्पलेखं पठिष्यामि|

हिमांशुः
learnsanskrit.wordpress.com

अनामकः said...

धन्यवादः । भवान् प्रियवाचकः । भवतः इतिवृत्तपुटं (learnsanskrit.wordpress.com) प्रतिदिनं पठामि । संस्कृत-छात्रोऽहम् । वर्ष-द्वयात् आरभ्य संस्कृतभारती-द्वारा संस्कृतं पठन् अस्मि । भवन्तं विद्युत्पत्रं प्रेषिष्यामि ।