Thursday, April 05, 2007

द्विकर्मकत्वम्

द्विकर्मके प्रधानकर्मपदं किं, गौणकर्मपदं किम् इति कथं जानीमः ? एषः प्रश्नः भाषावर्गे उद्गतः । द्विकर्मकधातूनां चत्वारः धातवः प्रसिद्धाः । तेषाम् अन्यकारकरूपं दृष्ट्वा सरलं भवति । भाषापाक नाम्ना पुस्तके --

(१) भिक्षुकः धनिकं धनं याचति । भिक्षुकः धनिकात् धनं याचति ।
(२) अध्यापकः छात्रं प्रश्नं पृच्छति । अध्यापकः छात्रात् प्रश्नं पृच्छति ।
(३) पितामहः पौत्रं कथां वदति । पितामहः पौत्राय कथां वदति ।
(४) कृषिकः गृहं वस्तूनि नयति । कृषिकः गृहे वस्तूनि नयति ।

एवं भाषापाके अन्येषां सर्वेषां द्विकर्मकधातूनाम् अन्यकारकरूपम् अपि दर्शितम् अस्ति ॥

No comments: