Sunday, April 22, 2007

मित-प्रकोष्ठ-कीर्तिः

बहुत्र, जनाः लघु-प्रकोष्ठे वसन्ति । प्रायः शौचालयं विना अन्यः चतुरङ्ग-प्रकोष्ठः न स्यात् । स्थलं लघु भवेत् , किन्तु तस्मिन् सम्यक् जीवनं भवेत् । प्रकोष्ठवासिनाम् इच्छानुसृत्य प्रकोष्ठवेष-परिवर्तनं जनाः कुर्युः । केनापि एतादृशानां लघु-प्रकोष्ठ-वेष-स्पर्धा आयोजिता । स्थलं तु परिमितं, स्वल्पम् । तथाऽपि स्पर्धायां केऽपि द्वे प्रकोष्ठे समाने न दृष्येते । स्थलम् अधिकं स्यात् , किन्तु उपयोगं विना किं प्रयोजनम् ?

एवं संस्कृत-क्षेत्रे, सम्भाषन-द्वारा बहवः उत्सुकाः नूतन-छात्राः । तेषां भाषाज्ञानं मितं, किन्तु कल्पनशक्तिः अमिता । तैः किं न कर्तुं शक्यते ? संस्कृतं पठन् , भाषा-शक्तिः वर्धमाना, संस्कृतस्य सम्पूर्णं बहिर्मुख-वेषपरिवर्तनं कारयितुं शक्नुवन्ति । रचयामः नव-इतिहासम्।

No comments: