
उदाहरणम् यथा--इन्द्रजालिनः तु सर्वत्र सन्ति। सामान्यतया ते किञ्चन वस्तु प्रदर्श्य, तस्य अन्तर्धानं कारयन्ति। तदेव लासवेगसि अपि। किन्तु सामान्यवस्तूनां अन्तर्धानं न कारयन्ति। बृहतः उन्नतस्य स्थूलस्य वस्तुनः एव अन्तर्धानं कारयन्ति . . . यतः एवं वस्तु ते इन्द्रजालिनः कुत्र वा गोपयन्ति?
लासवेगसि, एकः प्रधान-मार्गः, यस्य द्वयोः अपि पक्षयोः विविधानि अक्षस्थलानि। जनान् आक्रष्टुं एवं व्यवस्था कृता। प्रतिभवनं किमपि विषयम् उद्दिश्य, सम्बद्ध-वस्तूनि, चित्राणि सर्वाणि स्थापयन्ति। कथम् एतत्?

पुरा ईज्यिप्त-देशे राज्ञां त्रिकोणाकार-भवनानि प्रचुराणि आसन्। अतः अत्र लासवेगसि अपि एकं भवनं तथा एव निर्मितम्। अन्ते भित्तौ अपि सम्भद्ध चित्राणि एव, यथा कोऽपि चिन्तयेत्--अहं तु ईज्यिप्त-देशं गतः--इति। एवं न्यूयार्क्, प्यारिस्, ग्रीस्, अन्यानि स्थलानि उद्दिश्य भवनानि निर्मितानि। कल्पन-शक्तिः अस्ति चेत्, किमपि कर्तुं शक्यते मानवैः। किन्तु, अत्र लासवेगसि, तामस-स्वभावान् एव भोजयति सर्वम्। तथापि विश्वस्य गम्येषु स्थलेषु अन्यतमं तु लासवेगस् एव!