Friday, November 14, 2008

गायत्र्याः अर्थः -- निरुक्तभाष्ये

यद्ब्रह्म नित्यं हृदि सन्निविष्टं
मां प्रेरयेत् तिष्ठति नः सुबुद्धिः।
भर्गस्तदाख्यं भजनीयं एतत्
ध्यायामि नित्यं रविमण्डलस्थम्॥

देवस्य सवितुर्मध्ये यो भर्गो नो धियः स्वयम्।
प्रचोदयात् तत्वरेण्यं धीमहीत्यन्वयक्रमः॥

द्युस्थानात् द्योतनाद्वाऽपि भानुर्देव उदाहृतः।
जगत्प्रसव-हेतुत्वात् स एव सविता भवेत्॥

तत्सम्बन्धी च यो भर्गः पापानां भञ्जकत्वतः।
अस्माकं कार्यविषये बुद्धीः प्रेरयतीह यः॥
तद्ब्रह्म प्रार्थनीयं स्याद्वरणीयं उपास्महे।

ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती
नारायणः सरसिजासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय-वपुर्धृत-शङ्खचक्रः॥

No comments: