Tuesday, September 14, 2010

आपृच्छा

पस्थानकाले सर्वेषु गृहेषु मङ्गलोक्तिः श्रूयते। गृहिण्यः संस्कृतभाषाम् अजानत्यः अपि कदाचित् परम्परागतानि "ईश्वरो रक्षतु" इत्यादीनि वाक्यानि उच्चारयेयुः। अद्यत्वे संस्कृतबालाः वयं -- पुनर्मिलामः -- इत्यादीनि उच्चारयेम। यदा स्मृतिग्रन्थान् परिशीलयामः, अन्येऽपि प्रयोगाः शतशः दृश्यते। उदाह्रियते। विश्वामित्रः महाराजः वसिष्ठाश्रमं गत्वा, सत्कारं स्वीकृत्य निर्वर्तनाकाङ्क्षी सन्, उच्चारयति -- नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा -- इति। सर्वप्रसङ्गेषु उच्चारणयोग्यं नन्विदं वाक्यम्? मैत्रेणेक्षस्व चक्षुषा -- इति।

2 comments:

Anonymous said...

"Behold through friendly eyes" इत्यर्थो वा?

Anonymous said...

आम्। अथवा, अस्माकं मित्रता वर्धेत इति अर्थे। एतादृशीनां सूक्तीनाम् अनुवादः क्लेशाय ननु?