Friday, October 15, 2010

विश्वसंस्कृतपुस्तकमेला

२०११, Jan मासे, बेङ्गलूरु-नगरे विश्वसंस्कृतपुस्तकमेला प्रवर्तिष्यते। अदृष्टप्रायः कार्यक्रमः अयं यत्र बहवः संस्कृतप्रेमिणः भागं वक्ष्यन्ति। कार्यक्रमयोजना सूक्ष्मेक्षिकया क्रियमाणो विद्यते इति तथ्यम् एव। किन्निमिता मेला? उद्देशाः के? भविष्यन्ति कानि? इत्यादयः प्रश्नाः करपत्रेऽस्मिन् विवृताः सन्ति। तच्च सर्वैः अवलोक्यम्। मेला इयं गम्या एव।

"अपूर्वस्य संस्कृतजगतः अभूतपूर्वं दर्शनम्" इति घोषणावाक्यम्। स्वर्गीकृतभूतलम् इति मे विचारः।

1 comment:

Phillip said...

कृतवेद्यस्मि। कदाचिदहं मम च पत्नी तत्र गमिष्यावो यत आवामपि बेङ्गलूरुनगरे वसावः॥