Wednesday, November 10, 2010

सुरुचिः

वाङ्मयं विशालम् अपारं च। तत्र वासनाच्छादितः सर्वपठिताऽपि रुचिकरं किञ्चित् प्राप्येत एव।

बहुशः संस्कृतकृतयः दीर्घाः भवन्ति। अधिकोक्तिः अतिशयोक्तिश्च विद्यते इव। यदि मूलभाषया संस्कृतेनैव पठ्यते, न कापि न्यूनता अनुभूयते, यतो हि सहजम् एव इदं कथासु। किन्तु, यदा अनुवादः पठ्यते व्यर्थता भाति या आधुनिकैः बहुभिः उपेक्ष्यते। उदाहारः कश्चित् -- योगवासिष्ठे सुरुचिः नाम काचित् स्त्री हिमवतः शिखरे उपविष्टा वर्त्तते। संस्कृतक्षेत्रे सर्वक्षेत्रवर्णनम् अपेक्षितं ननु कविभिः? एवं च सति अग्रिमश्लोकोक्तिः तदेव क्षेत्रवर्णनम्। अतः, अयं च श्लोकः अनुवादे बहुत्र जहितो विद्यते।

रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ १,१,२०

स्वर्धुनी = आकाशनदी गङ्गा, अघौघः = पापराशिः। भूलोके यत्र पापनाशिन्या गङ्गानद्या आविर्भूयते, तत्रैव किन्नराः कामक्रीडां कुर्वन्ति इति। तादृक् अद्भुतं स्वर्गसमं वातावरणम् इति।

किन्तु, अर्थान्तरं निजं सुन्दरतमं मे भाति। वेदान्ततत्त्वं एव मूलबीजम् उप्तं श्लोकेऽस्मिन्। किम् ईदृशं किञ्चित् भवतां पठितॄणां दृष्टिगोचरम् आयाति? यद्येवं, कृपया स्वमतं प्रेषयन्तु। (अन्यथाऽपि स्वमतप्रकाशो भवतु)। स्वमतम् अग्रे मयाऽपि कतिपयदिवसाभ्यन्तरे प्रकाश्यते।

देवक्रीडा इयं ननु? एके श्लोकं त्यजन्ति, अन्ये तमेव श्लोकं पूजयन्ति।

1 comment:

अश्वमित्रः said...

देवक्रीडा इयं ननु? एके श्लोकं त्यजन्ति, अन्ये तमेव श्लोकं पूजयन्ति इति।

सत्यम्। अत्र लतीनभाषायामिदं सुभाषितमस्ति De gustibus non est disputandum इति। रसेषु विवादो न कर्तव्यो यतो रसहेतुर्ज्ञातुं न शक्यत इति तस्याऽर्थः॥