Tuesday, November 16, 2010

स्वर्णदशा

कदाचित् अस्मदितिहासं स्मरन्तः वयं गुणं गुणयामः, दोषान् उपप्रेक्षामहे च। वस्तुतया विस्मरणशक्तिः करुणामयेश्वरस्य कश्चन वरः। बहुत्र आदर्शपुरुषान् उन्नीय, पूजाभावना उत्पाद्येत, यस्मात् आवयोः अन्तरं कल्प्यते। ततः अस्माभिः न कश्चन प्रयासः करणीयः ननु? किन्तु तथ्यम् अन्यथा विद्यते। सर्वेणापि सर्वस्यामपि अवस्थायां प्रयाशः करणीयः, यस्मात् स्वोद्धारः शक्यः। उपनिषदि ईदृशः कथाः भूरि श्रूयन्ते। श्वेतकेतुः विख्याता वैदिकव्यक्तिः ननु? तत्र पूर्वावस्था वर्ण्यते --

भर्त्सयन् बालकान् अन्यान् बहुशोऽपि च ताडयन् ।
स्त्रियो विप्रांश्च पश्वादीन् संप्रयाति द्रुतं तथा ।
बाल एव जनं सर्वं दुःखयन्नत्यशिक्षितः ॥

इतिहासोल्लेखः एकः एव -- कृते प्रयत्ने किं न लभेत -- इति॥

1 comment:

अश्वमित्रः said...

साधु। सत्यमिदं ब्रवीषि। अहं विशेषतो जानामि यथा स्वान्गुणान्दोषांश्च परीक्ष्य सर्व एवाऽऽत्मानं महता प्रमाणेनोद्धर्तुं शक्नोति। स्वभावः खल्वस्ति स्वोद्धारस्तु कस्यां चिदवस्थायां कर्तुं शक्यते॥