Friday, November 19, 2010

अनुवादः

आन्तर्जालक्षेत्रे कस्मिंश्चित्, कस्यचन ग्रन्थस्य उपस्थापनं कृतम्। अतः सः ग्रन्थः बहुभिः संस्कृतानुरागिभिः परिशीलितः। कृतो वा तलस्पर्शः। भवतु नाम। ग्रन्थोऽयं उपनिषत्प्रसाद-नामकः स्वामिना भास्करानन्द-सरस्वती-वर्येण विरचितः। मुखोपनिषदां सरला व्याख्या इयं, प्रथमावृत्त्यै। प्रथमावृत्तिग्रन्थेषु मम प्रीतिः वर्त्तते। कथञ्चित् अद्य छात्रैः मूलं पठ्यते, पक्षान्तरे प्रसिद्धभाष्यं किञ्चन। मध्ये तु बहुशून्यम्। किन्तु अवश्यं सर्वशास्त्रसोपानानि सन्ति, ते च ग्रन्थाः संस्कृतभाषया अपि विरचिताः सन्ति इति मे विश्वासः। अयं कश्चन उदाहारः। उपनिषदां पठने तु अपरा अपि प्रसिद्धतरा सरला व्याख्या विद्यते -- सा च अमरदासविरचिता उपनिषन्मनिप्रभा। भास्करानन्दस्वामिनः उपनिषत्प्रसादग्रन्थम् उपलभ्य मन्दस्मितोऽहं सञ्जातः। किमिति? शीर्षके अयं ग्रन्थः अनुवादग्रन्थः इति निवेदितम्। सामान्यतया अनुवादः नाम भाषान्तरप्रयोगः। अत्र तु अनुवादः संस्कृतभाषया एव कृतः। साधु ननु?

[ यदि भवतां पठितॄणां कुतूहलं विद्यते, उपनिषत्प्रसादारोपः कृतः अन्तर्जाले। पठ्यताम् -- http://groups.google.com/group/samskrita/msg/7ff8c270337fee76?hl=en ]

2 comments:

Atreya said...
This comment has been removed by the author.
Atreya said...

जालपुटसङ्केताय धन्सोस्मि। ईदृशीं टीकां अन्विशन् आसम्।