Tuesday, February 08, 2011

दीपशिखाकालिदासः

श्रूयते विद्वद्वचनम् --

उपमा कालिदासस्य भारवेरर्थगौरवम्
दण्डिनः पदलालित्यं माघे सन्ति त्र्यो गुणाः ॥

सर्वस्मिन्नपि श्लोके काचित् उपमा निरूप्यते कालिदासेन । प्रेक्षकैः अतिमात्रं कालिदासवचनानि परिशील्य, तस्य काचित् उपमा एव विशेषणत्वेन उपक्षेपिता । कुतः इयम् उपमा इति पृष्ठे --

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥६,६७॥

रघुवंशमहाकाव्ये इन्दुमतीस्वयंवराख्याने तस्याः इन्दुमत्याः प्रभावः वर्णितः । सा इन्दुमती रात्रौ दीपशिखा इव संचारिणी, यं यं राजानं व्यतीयाय अतीत्य गता, सः सः भूमिपालः नरेन्द्रमार्गाट्टः इव विवर्णभावं प्रपेदे इति ।

अस्मादेव श्लोकात् अयं कविः दीपशिखाकालिदासः इति ख्यातिं गतः । मुहुर्मुहुः पठित्वाऽपि पुनःपठितुकामाः वयम् । सौन्दर्यात् आख्यायिका इयं बहुषु विश्वविद्यालयेषु पाठ्यवस्तुना विहिता ।

10 comments:

Narayan said...

"नरेन्द्रमार्गाट्टः" इत्युक्ते किं ?

अनामकः said...

मल्लिनाथः -- नरेन्द्रमार्गे राजपथे अट्टाख्यः गृहभेदः इव [पण्यगृहम् इव / क्षौमाख्यः मन्दिरभेदः इव] । "स्यादट्टः क्षौममस्त्रियाम्" इत्यमरः -- इति ॥

राजपथे विद्यमानं किञ्चन भवनम् इति सिद्धम् ।

Narayan said...

धन्यवादः

satrudra prakash said...

Very great work have done by you. Be long live

satrudra prakash said...

Very great work have done by you. Be long live.

Unknown said...

समीचिनम्

Phillip said...

कष्टम्। अद्याऽत्र न किं चिद्वर्तते। संस्कृतलेखनस्थानानि न कर्हिचिच्चिरं जीवन्ति।

KERALA SANSKRIT TEACHERS FEDERATION, KERALA STATE said...

very good
dhanyavaada:
wwww.sanskritteacher.blogspot.com

Anonymous said...

भवान् अतिसुन्दरं जालपुटं रचितवान् । श्वस्ति, मङ्गलं भवतु ।

thiru said...

यथा दीपशिखा कालिदास: तथा कवयोsप्यन्ये प्रथिता: । एवमध: सूच्यते -
१. छत्र - भारवि: २. घण्टा-माघ: ३. वेणीमंख: these titles are called sobriquet in English and in Tamil they are named as சாட்டுப்பெயர்