Monday, November 19, 2007

मूर्खः चोरः गृहीतः

एडम्-कूपर् नाम्ना चोरः, आपणं प्रवेष्टुम् उपरिष्टात् छदात् वायु-नाल-द्वारा गतः। किन्तु, अल्पस्थले पीडितः सः तत्रैव बद्धः। आरक्षकैः तैलम् उपयुज्य, सः चोरः निर्गतः। इदानीं कारागृहवासी, घोषणपूर्वं $10,000 धनाय गृहीतः॥

चोरग्रहणे आरक्षकैः सदा जागरूकता आश्रयणीया। यदा मूर्खाः चोराः स्वबद्धतां कारयन्ति, आरक्षकेभ्यः हास्यं भवति, ननु?

मुद्गल लेखकः

गत-मासे किमपि न लिखितम् अत्र। किमर्थम् इति निवेदयामि। संस्कृतेन संस्कृतं इति अन्दोलनं गत-विंशेभ्यः वर्षेभ्यः प्रचलत् अस्ति। तत्र अग्रेसरति संस्कृतभारति। एवमेव लेखनेऽपि संस्कृतं संस्कृतेन लिखामः, इत्युक्ते देवगागरि-लिप्या, न तु अन्यया लिप्या। एतत् कर्तुं बरह, अन्ये अपि सन्ति। तत्-द्वारा साक्षात् संस्कृतेन लेखितुं शक्यते।

केचन (तेषु अहमपि) वेद-सूक्तानि अपि लेखितुं इच्छुकाः। किन्तु, एतत् कर्तुं मार्गः नास्ति। यतः स्वराः कथं लेखनीयाः? तर्हि, एतत् कर्तुं मया एकः लेखकः निर्मितः। इतः परं सङ्गणकयन्त्रे, वेदसूक्तानि साक्षात् संस्कृतेन एव लेखितुं शक्यते। कथं दृष्यन्ते? छन्दस्-लिप्या एवं दृष्यते। पठितृषु कोऽपि एतस्य उपयोगं कर्तुम् इच्छति चेत्, प्रतिपत्रं लिखतु॥

Wednesday, October 17, 2007

विवाह-वेषः

विवाहः। सर्वत्र अस्मिन् उत्सवे भिन्न-भिन्न-वेषाः, प्रयोगाः च। बहुषु स्थलेषु आजीवनं बालिकाः युवत्यः च विवाह-दिन-स्पप्नाः पश्यन्त्यः सन्ति। विवाहानन्तरम् अपि विवाहचित्राणि स्मृतिपथे सर्वदा आयान्ति। युवत्यः सर्वाः -- मम विवाहः असामान्यः भवेत् -- इति इच्छया विवाह-रचनां सूक्ष्म-दृष्ट्या पश्यन्ति। चीन-देशे एका महिला--तस्याः नाम कथं लेखनीयम् इति न जाने। तस्याः वस्त्रस्य पृष्ठ-भागस्य असामान्या दीर्घता! २०० मीतर-मित-दीर्घता, आहत्य १०० किलो-मित-भारः च !

Thursday, October 11, 2007

पुरातमं चित्रम्

११,००० वर्षाणां पुरातनं चित्रं उपलब्धम्। रक्त-कृष्ण-श्वेत-वर्णैः सिरिया देशे सद्यः दृष्टं खननकैः। बहुशः चित्रे चतुरश्राः विराजन्ते। शिलाचूर्णैः एते वर्णाः कृताः इति भाति। एतत् चित्रं एकस्मिन् सभा-मण्डले लब्धम् . . . अतः प्रायेण तस्य किमपि प्रयोजनं स्यात् इति विज्ञानकानां मतम्। किन्तु, प्रयोजनं किम् इति केनापि अधुना स्पष्टतया न वक्तुं शक्यते॥

Tuesday, October 09, 2007

दन्त-धावने विश्वविक्रमः



पुनः एकं चित्रम्। युगपत् कतिचित् जनैः दन्तधावनं कृतम्? पूर्वं विश्वविक्रमः (world record) आसीत् ४१,०३८ जनाः। भारते, छात्राः तस्याः सीमायाः विक्रमं कर्तुं एकः प्रयत्नः॥

Monday, October 08, 2007



११०-घण्टासु निरन्तरतया तब्ला वादिता॥ विश्वविक्रमकः कनदा-देशवासी जग्जीत्-सिङ्घः

भारतीय-वर्णाः



वेग-विमानेभ्यः अनुयायी, भारतीय-वर्णैः धूमः, ७५-तमे वायु-सैनिक-वार्षिकोत्सवे, देहली-प्रान्तस्थे

रामायणे शबरी

रामानन्द-सागरस्य रामायणे प्रति-सत्त्रं सुन्दर-भावाः दर्शिताः ये सर्वदा स्वयं वाल्मीकिना न उक्ताः। तथाऽपि तेषां सौन्दर्यम् अक्षीणम्। हनुमता मेलन-पूर्वं, रामः शबर्याः आश्रमं गतः। तत्र, चित्रमुद्रिकायां, प्रति-दिनं शबरी कुटीर-पुरतः लघुमार्गं स्वच्छीकृत्य विकसितैः सुगन्धैः पुष्पैः तृणकटवत् अलङ्कृतः। प्रति-दिनं शबर्या आस्वाद्यानि एव फलानि रक्षितानि। तया कथं ज्ञातं यत् प्रतिफलम् आस्वादम् इति? यतः तया प्रति-फलं आस्वादितं . . . मधुर्यानि फलानि एव रक्षितानि।

एतत् सर्वं वाल्मीकिना स्वयम् उक्तं वा इति मनसि आशङ्का उत्पन्ना। वाल्मीकि-रामायण-पुटं गतम्। तत्र अनुवादकेन स्वयं तिप्पणी लिखिता -- एतत् वाल्मीकि-रामायणे नास्ति . . . किन्तु पद्म-पूराणे एवं श्रूयते - -

फलानि च सुपक्वानि मूलानि मधुराणि च।
स्वयम् आसाद्य माधुर्यं परीक्ष्य परिभक्ष्य च।
पश्चात् निवेदयामास रघूभ्यां दृढव्रता।

किन्तु अत्रापि अपरार्थः भाति इति मन्ये -- स्वयम् आसाद्य इति लिखितं, न तु स्वयम् आस्वाद्य। परिभक्ष्य -- मधुराणि सुपक्वानि फलानि विहाय तया शबर्या स्वयम् अन्यानि अस्वादानि परित-फलानि एव खादितानि। एवं तया मधुर्यानि फलानि रघूभ्यां रक्षितानि।

सुन्दरी एषा शबर्याः उपकथा॥ विवरणं तु यथाकथञ्चित् भवेत्, शबरी तु प्रशंसार्हा, जीवनलक्ष्यं प्राप्ता च॥ रामः कः? शबरी-दत्त-फलाशन-रामः . . . . एवं ननु?

नाम-रामायणम्

ह्यः सपत्नीकः रामायणस्य चित्र-मुद्रिकां पश्यन्, नामरामायणं स्मृति-पथे आगतम्। कुत्रचित् अर्थभ्रमितः, अनुवादः अन्तर्जाले अन्विष्टः। किन्तु आङ्ग्लानुवादः संस्कृतात् च्युतः॥ अपि, नाम-रामायणं बहुशः सरल-संस्कृतेन एव॥ किष्किन्धाकाण्डः यथा --

हनुमत्-सेवित-निजपद-राम॥ नत-सुग्रीव-अभीष्टद-राम। गर्वित-वालि-संहारक-राम। वानर-दूत-प्रेषक-राम। हितकर-लक्ष्मण-संयुत-राम॥

अर्थात्? सदा हनुमता सेवितः अङ्कितः, सः रामः॥ शिरसः अवनताय सुग्रीवाय प्रेम-दाता अभीष्टदाता रामः॥ गर्वितस्य अहङ्कारपूर्णस्य वालेः संहारकः बाणविमोचकः रामः॥ वानराणां दूतानां गुप्तचराणां प्रेषकः प्रेरकः रामः॥ हितकरेन सेवकेन सहाय्यकेन लक्ष्मणेन युक्तः रामः॥

Tuesday, October 02, 2007

प्राथमिक-शिबिरम्

गत-सप्ताहात्, वयम् अत्रत्यः संस्कृतभारत्याः कार्य-गणः प्राथमिके शिबिरे चालयन्तः स्मः। बहवः उत्सुकिताः छात्राः अत्र भागं वहन्ति। केचन पूर्वं संस्कृतं विद्यालये अपठन्, किन्तु न स्मरन्ति, न वा प्रयोगं कर्तुं शक्नुवन्ति। किन्तु, संस्कृतभारत्याः प्राथमिक-शिबिर-मध्ये सर्वेऽपि प्रयोगं कर्तुं शक्नुवन्ति। द्वित्रेषु दिनेषु संस्कृत-ज्ञानम् अत्यन्तं स्वल्पम् . . . एतत् तु सत्यम्। किन्तु, स्वल्पेन एव कालेन, सर्वैः सम्भाषणं शक्यम्। संस्कृतं सरला-भाषा इति भावना उत्पन्ना। संस्कृतभारत्याः पाठने अन्यत् रहस्यम् अस्ति -- बहवः युवकाः पाठयन्ति . . . प्रथमं ते भाषां स्वभाषां कृत्वा, स्व-शैल्या संस्कृताश्वासनं कृत्वा पाठयन्ति। एवं पाठित-संस्कृते नावीन्यं दृश्यते। संस्कृतस्य लाभाय इति भाति।