Friday, September 24, 2010

संस्कृतगृहम्

संस्कृतगृहं नाम तादृशगृहं यत्र कुटुम्बं प्रतिदिनमपि किञ्चित् आलापं संस्कृतेन कुर्यात्। गच्छता कालेन कालावधिवृद्धिः अवश्यम् अनायासेन जायेत। तादृशानां कृतसंकल्पानां मेलने भाषणानि इमानि मुद्रितानि इति भाति। पश्यामः श्रुणुमश्च।

संप्रति वर्ताः श्रूयन्ताम्

आहबोः कालात्, AIR-संस्थया संस्कृतभाषामुद्रितवार्ताः अन्तर्जाले आरोप्यन्ते। किन्तु, मुद्रणसमीकरणे अपेक्षिते सति, श्रवणविघ्नाः आसन्। किन्तु, परिष्कारः जातः। यद्यपि प्रतिपदं नैव अवगम्यते, तथाऽपि महान् लाभः श्रवमात्रेण। अन्तर्जालसङ्केतं दक्षिणभागस्थायां मञ्जूषायां निवेदितम्। श्रुणुमः वयम् -- इयम् आकाशवाणी ...

Wednesday, September 22, 2010

इतिहासस्य मार्जनम्

क्वचित् घटनाः लोकचैतन्ये रेखिताः भवन्ति। इदनीन्तनम् उदाहरणं किञ्चन ९/११ यथा। तथैव घटनान्तरं पुरा titanic-नैकायाः निमज्जनम्। किन्तु भाति यत् वास्तविकघटना न केनापि ज्ञायते इति। अद्य, नाविकस्य पौत्री अघोषयत् -- निमज्जनस्य कारणान्तरं वर्त्तते -- इति। यद्यपि एषा कथा सुप्रसिद्धा, बहुभिः विद्वद्भिः कारणान्वेषणे महान् प्रयासः कृतः, तथापि अंशोऽयम् अन्धतमसि स्थितः। उद्घुष्टं यत् तस्मिन् एव काले नूतनः केनिपातप्रयोगः आरब्धः। पूर्वतनप्रयोगस्य नूतनप्रयोगस्य च प्रतिकूलता। अतः, यद्यपि हिमपर्वतः नाविकस्य दृष्टिपथम् आगतः, यद्यपि मार्गपरिवर्तनं विहितं, तथापि नूतनप्रयोगस्य स्थाने पुरातप्रयोगः अभ्यस्तः केनचन। अतः अन्ततो गत्वा अपेक्षितमार्गपरिवर्तनं नैव जातम्।

किन्तु कथा इतोऽपि अनुवर्त्तते। दुर्घटनायां जातायां, नाविकः उपदिष्टः नौकास्वामिना -- अग्रेसर -- इति। यदि अग्रे सर्तुं प्रयासः अकृतः अभविष्यत्, तर्हि प्रायेण सर्वेऽपि यात्रिकाः रक्षिताः अभविष्यन् इत्यपि अद्य उद्घुष्टं तया एव। अहो दौर्भाग्यम् ! कथं वा इदं सर्वं जातं, गोपितं च इति आश्चर्यं जनयति।

Tuesday, September 21, 2010

कावेरी-शिबिरम्

गते सप्ताहान्ते कावेरीनामकशिबिरम् आवासीयं प्रावर्तत देशस्य अस्य पश्चिमे तटे, golden-gate-सेतोः पार्श्वे, पर्वतशिखरे। रमणीयं स्थलं, सुखमयं संस्कृतव्याप्तदिगन्तरं, रुचिकरं महार्हं भोजनम् इत्यादि सर्वमपि आह्लादजनकम्। कुटुम्बशिबिरेऽस्मिन् न केवलं ज्येष्ठाः, प्रत्युत बालाः युवकाः युवत्यः प्रौढाश्च भागम् अवहन्। दिनद्वयेऽपि उपषष्टि संस्कृतप्रेमिनः कालं नीतवन्तः। संस्कृतेन पठनं, संस्कृतेन योगाचरणं, तेनैव भाषया क्रीडा इत्यादि। अग्रिमे संवत्सरे अस्माभिः साकं भवन्तः सर्वेऽपि पठितारः भागं वहेयुः इति सर्वेषाम् अस्माकं भागिनां प्रार्थना !

Wednesday, September 15, 2010

उपनिषदः पठनम्

वेदान्तदर्शनस्य मूलभूतग्रन्थाः उपनिषदः एव, यस्मात् सर्वेऽपि ताः पठितुकामाः। यतो हि बहुत्र आर्षप्रयोगाः विहिताः, भाष्यं लाभाय भवति। किन्तु भाष्ये पूर्वपक्षसिद्धन्तनिराकारः इत्यादयः अंशाः अपि अन्तर्हिताः भवन्ति। आदौ प्रथमावृत्तौ अनावश्यकम् इदं सर्वम्। अमरदासस्य मणिप्रभा व्याख्या वर्त्तते, यत्र मुख्यभूताः एव अंशाः प्रकाशिताः। कथमपि बहूनां संस्कृतज्ञानां ग्रन्थोऽयम् अपरिचितः।

संस्कृतभाषा सरला मधुरा

कथमपि संस्कृते काठिन्यबुद्धिः प्रसृता। सरलमुखे प्रदर्शिते सति, नैव इदं निजसंस्कृतं -- इति प्रतिवचनम्। नाम, संस्कृतस्य द्वैविध्यं (सरलमुखं प्रौढमुखं) अङ्गीक्रियते। तथापि सरलमुखं बालानाम् एव, न तु अस्काकम् इति भावना। एतैः महर्षिः वाल्मीकिः अपि बालेन गण्यते इव।

सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥
कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥
कैकेय्यै चावसिष्टार्धं ददौ पुत्रार्थकारणात् ।
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ।
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।
संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ १,१६ ॥

एतादृशं ऋषिप्रयुक्तं संस्कृतं पठितुं किं प्रयतामहे?

Tuesday, September 14, 2010

छान्दसः सौन्दर्यम्

आदौ, यदा व्यावहारिकसंस्कृतस्य उपस्थापनं क्रियते, बहूनि सरलवाक्यानि वदामः -- मम पुस्तकं ददातु -- यथा। कर्ता, कर्म, क्रिया यथाक्रमं योजयित्वा, वाक्यरचना। गच्छता कालेन, सः एव प्रयोगः अभ्यस्तः भवति। परन्तु, यदा विद्वद्वचनं परिशीलयामः, क्रमान्तरं बहुत्र दृश्यते। कदाचित् अंशोऽयं भाति -- छादसः सौन्दर्यं श्रूयते। रामायणे विश्वामित्रः वसिष्ठात् पृच्छति -- शबला दीयतां मम। छान्दसः कारणात् सौन्दर्यं वर्त्तते इति मम भाति। तथैव ननु -- ददातु पुस्तकं मम -- इत्यस्य सौन्दर्यम् अपि किञ्चित् वर्त्तते इति?

आपृच्छा

पस्थानकाले सर्वेषु गृहेषु मङ्गलोक्तिः श्रूयते। गृहिण्यः संस्कृतभाषाम् अजानत्यः अपि कदाचित् परम्परागतानि "ईश्वरो रक्षतु" इत्यादीनि वाक्यानि उच्चारयेयुः। अद्यत्वे संस्कृतबालाः वयं -- पुनर्मिलामः -- इत्यादीनि उच्चारयेम। यदा स्मृतिग्रन्थान् परिशीलयामः, अन्येऽपि प्रयोगाः शतशः दृश्यते। उदाह्रियते। विश्वामित्रः महाराजः वसिष्ठाश्रमं गत्वा, सत्कारं स्वीकृत्य निर्वर्तनाकाङ्क्षी सन्, उच्चारयति -- नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा -- इति। सर्वप्रसङ्गेषु उच्चारणयोग्यं नन्विदं वाक्यम्? मैत्रेणेक्षस्व चक्षुषा -- इति।

पठनम्

ज्ञानवर्धनाय बहुविधग्रन्थान् पठितुं प्रयते सम। तदा तु बहूनि अपरिचितपदानि दृष्टिपथम् आयान्ति। तादृशं प्रतिपदं कोशे अन्वेष्टव्यम्। अर्थः कः, लिङ्गं किं, विग्रहवाक्यं किम् इति विज्ञेयम्। पठने पिपीलिकागतिः। कदाचित् पृष्टोऽहं मित्रेण -- किं भोः, एवमेव सर्वभाषाग्रन्थपठने चेष्टा -- इति। हुं, परिशील्यम् -- इति उत्तरितम्। अग्रे कदाचित् ग्रन्थशालां गतः। तत्र बालानां पठनाभ्यासाय स्तरयुक्ताः ग्रन्थाः राशीकृताः। यूनां निमित्तं द्वौ ग्रन्थौ अवलोकितौ। किं तत्र प्रतिपदं ज्ञायेत? नैव। बहुत्र भावार्थः ज्ञातश्चेदपि सूक्ष्मार्थः अज्ञातः स्यात्। किन्तु तत्र न पिपीलिकागतिः। न वा पठनार्हता नास्ति इति स्वप्नेऽपि कल्प्यते। तस्मिन् एव क्षणे संस्कृतक्षेतेऽपि "आत्मबलं धर" इति स्मृतिवचनं प्रबुद्धम्।

Thursday, May 13, 2010

आवासशिबिरेषु संस्कृतम्

बहुशः, सर्वेषामपि पठितॄणां न केवलं संस्कृते रुचिः, परन्तु वेदान्ते साहित्ये वा रुचिरपि स्यात्। बाल्ये संस्कृतम् अधीतं चेत्, पितॄणामपि संस्कृतश्रद्धा स्यात्। प्रौढावस्थायाम् अधीतं चेत्, स्वस्यैव संस्कृतश्रद्धा स्यात्। गतदशके, ततः प्राक् च, बहुभिः हितैषिभिः महती संस्कृतसेवा आचरिता। ततः संस्कृतपरम्परा कणशः आश्वासिता।

संस्कृताध्ययनं बहुत्र क्रियते। अन्तर्जालस्य महान् लाभः, यतो हि, दूरे स्थितेऽपि बहवः परिचिताः जाताः। क्वचित् वार्षिकशिबिराणि मेलनानि च आचर्यन्ते, यैः प्रत्यक्षतया वास्तविकपरिचयोऽपि जायते। विश्वविद्यालयेषु पाश्चात्येषु केषुचित् मेलनानि आयोज्यन्ते यत्र भाषणानि संस्कृतेन अपि क्रियन्ते।

वेदान्तक्षेत्रे, क्वचित् द्विवर्षात्मकं त्रिवर्षात्मकं वा आवासीयशिबिरं प्रवत्त्यते, यस्मिन् प्रस्थानत्रयं परिचर्यते। आचार्यभाष्यं मुख्यम् अंशं मत्त्वा, संस्कृतज्ञानम् अपि प्रतिपाद्यते। किन्तु, संस्कृतभाषा अङ्गुलीयकमात्रं मत्त्वा, केषुचन सत्रेषु एव "भाषापाठनम्"। तेषु अपि सत्रेषु अङ्गुलीयकं नैव धार्यते, प्रत्युत केवलं प्रदर्श्यते। यदि मासाभ्यन्तरे व्यवहारः संस्कृतभाषया क्रियते, तर्हि कियान् अमाप्यः लाभः स्यात्? पुनश्च यदा भाष्यं पठ्यते, गतिवेगः भवत्येव। त्रिः वर्षं, ततः कियती कुशलता स्यात् भागवाहिनाम्? सुन्दरः स्वप्नः ननु?

गुरुकुलं गुरुकुलीकर्तुं, संस्कृतभाषा अपि आश्रयणीया इति भाति।