Wednesday, March 21, 2007

रघुवंशः -- उपोद्घातः

रघुवंशं पठन् , भावार्थ-अवगमनार्थं तिप्पण्यः स्वीकृताः । स्वपठनार्थं तदेव अत्रापि स्थापितम् । एताभ्यः तिप्पण्यः स्वीकृताः --
क) रामचन्द्रशुक्लेन विरचितः भावार्थः वाच्यपरिवर्तनम् च
ख) रामचन्द्रऐय्यरेन विरचिता तिप्पणी
ग) जिनसमुद्रेन विरचिता व्याख्या
घ) नारायणपण्डितेन विरचिता पदार्थदीपिका

क्रमेन प्रतिश्लोकं तस्य तिप्पणीं च अत्र स्थापितं भविष्यति ॥

9 comments:

m r rao said...
This comment has been removed by the author.
m r rao said...
This comment has been removed by the author.
m r rao said...

raghuvaMshavyAkhyAtR^iShu kimarthaM bhavAn.h suvikhyAtasya mallinAthasya namA.api na gR^ihItavAn.h? saMskR^itasAhitye asya kaveH kiM sthAnaM iti nirNetuM tasya kAvyasya vyAkhyAnaM mallinAthena kR^itaM kiM iti pR^icChyate. sa vyAkhyAtA kAvyasya nikaShopalaH.

अनामकः said...

नमस्ते रामचन्द्र-महोदय,

एवं स्यात् । तथापि, भावार्थम् अवगन्तुं, तस्य व्याख्या क्लिष्टकरा इति मन्ये । अपि च, तस्य व्याख्या सर्वत्र लभ्यते । अन्येषां न तथा ।

m r rao said...
This comment has been removed by the author.
m r rao said...

नमस्ते!
नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते इति प्रतिज्ञाबद्धस्य मल्लिनाथस्य व्याख्यानं संक्षिप्तं भवेत्‌ स्यात्‌ किंतु तस्मिन्नेव संस्कृतकाव्यरसास्वादनं अन्वभवं। भिन्नरुचिर्हि लोकः इति कालिदासः एव प्रमाणं!

nIlagrIva said...

नमस्ते ।
प्रथमतः संस्कृतेन लिखति भवान् इति ज्ञात्वा महान् प्रमॊदः मम । यदा कदा मयापि संस्कृतेन किञ्चिल्लिख्यते ।

रामचन्द्रमहोदयस्य यः प्रश्नः आसीत् स एव मम प्रश्नः । किमर्थं महामहोपाध्यायस्य कॊलाचल-मल्लिनाथस्य सञ्जीविनी अत्र न स्वीकृता ? तस्यां स्वीकुतायां सत्यां रघुवंश-महाकाव्यस्य रसास्वादः सुलभः कदलीपाकवद्भवति न नारिकॆलपाकवत् |

अन्यॊपि ग्रन्थो वर्तते यस्मिन् अन्यव्याख्यानान्यपि दत्तानि सन्ति । तानि कानीतीदानीं न स्मर्यते ।

पुनश्च वक्तुमिच्छामि । साधु कार्यं कृतं भवता। हार्दाभिनन्दनानि स्वीकरॊतु ।

अनामकः said...

नमस्ते नीलग्रीव !

मल्लीनाथस्य सञ्जीवनी न स्वीकृता यतः अन्याः व्याख्याः सुलभतराः । अन्यैः प्राथमिकस्तरीय-छात्रैः सह चर्चां कृत्वा एव एताः व्याख्याः स्वीकृताः । अहं तु सञ्जीवनीम् अपि पठितुं प्रयते एव ।

अनामकः said...

रघुवंशात् पूर्वं, (सव्याख्या)श्रीकृष्णविलासात् काञ्चन श्लोकान् प्रथमथया लिखामि।