Saturday, April 21, 2007

प्रयोगाः

पत्न्या सह मुख्य-प्रयोगयोः चर्चा । एकः कर्तरि, अपरः कर्मणि इति तया ज्ञातम् । किन्तु , भ्रमः अपि आसीत् । किञ्चित् पठनानन्तरं सा मां निवेदितवती -- स्मारकः अस्ति -- इति । प्रच्छने, सा घोषितवती -- कर्तरि-प्रयोगः कर्तरी इव . कर्तरी पीडयति, छिद्रं करोति च खलु ? तर्हि कर्तरि-प्रयोगः कठिनः ।

आश्चर्यचकितः अहं तदा उक्तवान् -- किन्तु "सः गच्छति" कर्तरि प्रयोगः एव भवत्या सम्यक् ज्ञातः . तदापि सः प्रयोगः कठिनः ? तदा सा पुनः निवेदितवती -- मम दोषः . कर्तरि-प्रयोगः कर्तरी इव . कर्तरी सर्वं कर्तयति, खण्डनं करोति . एवं प्रति-भागं पठितुं सरलं भवति . तर्हि कर्तरि-प्रयोगः सरलतरः -- इति । हसन् अहम् -- उपमानम् उपमेयम् . . . कस्य अनुसरणम् ? -- इति ।

1 comment:

Unknown said...

this joke is realy very good