Thursday, September 30, 2010

उच्चन्यायालयनिर्णयः

उच्चन्यायालयेन ध्वनितम् -- अयोध्यायाः विवादितभूमिः पक्षत्रयाय विभाजनीया। पक्षे मन्दिरं तिष्ठति। पक्षदानं हिन्दुसमाजाय। पक्षदानं मुस्लिमसमाजाय -- इति। मुस्लिमजनैः पुनर्विचारार्थं सर्वोच्चयन्यायालयः प्रार्थ्यते इति सूचितम्। यः निर्णयः हिन्दुसमाजसन्तोषं नैव जनयति, स एव निर्णयः कथमपि  मुस्लिमसमाजदुःखं जनयति।

सिद्धं यत् भूमौ अस्यां देवालयः वर्त्तते स्म। आक्रमणस्य फलम् अनुभूय कैश्चन चिरं कालः नीतः। यावत् दीनाः मूकाः अतिष्ठन्, तावत् असहनीया स्थितिः स्वीकृता। किन्तु न्यायविरुद्धं धर्मविरुद्धं च इदम् आसीत्। तथापि अद्य त्रिधाविभक्तभूमिः प्राप्ता अस्ति तैः। तथापि न कोऽपि सन्तोषः।  केषाञ्चन चेष्टा ईदृशी। वयम् अपि केचन निवसामः भूमौ अस्याम्, यस्मात् अस्कामपि अपि अर्हता रक्षणीया भवति इति सर्वन्यायसिद्धम्। बिडालायमानैः सिंहैः अस्माभिः क्वचित् एकवाण्या गर्जनीयम्।

2 comments:

Anonymous said...

विष्णोः सहस्रनमनि प्रथमं नाम विश्वं इति। न ब्रह्मणः न हिन्दू न वा मुसल्मानः। विश्वम् - यस्मिन् सर्वे विद्यते। ॐ इत्येत्त् अक्षरं इदं सर्वम्। तत्रापि भेदो न कृतः। अस्मकं धर्मे कर्मने सर्वोच्चस्थानं दत्तं। ब्रह्मा अपि तस्य प्रभावगोचरात् न वर्जितः। तदनुसृत्य एत्त् ज्ञतव्यं अस्माभिः - घटितः इतिहासः (भारतदेशस्य मोहमडन् आक्रमणं इत्यादि) सर्वे अस्माकं पूर्वं कृतकर्मनः एव। अतः प्रतिकारभवनां त्यजनीयं। अस्माकं निजधर्मानुसारं चलनीयम्।

Anonymous said...

विस्मृतभेदाः सन्तः -- एतादृश्या भावनया एव सर्वैः व्यवहर्तव्यम्। किन्तु, अधर्मः नाम अधर्मः एव। सः नैव अपेक्षिणीयः, न वा सोढव्यः। इदानीन्तकालेऽपि आक्रमणं बहु क्रियते बहुभिः। सावधानाः स्याम। विश्वैकता स्वमानत्यागात् स्वधर्मत्यागात् वा नैव सिद्ध्यति।