Saturday, March 24, 2007

क्त-क्तवतू

गत-सप्ताहात्, एकस्मिन् याहू-गणे, क्त-क्तवतू-प्रत्ययोः चर्चा प्रचलन् अस्ति । अन्येषां पत्राणि पठित्वा मया अभिज्ञातं यत् एतस्मिन् विषये मम ज्ञानं शून्यम् इति । परिष्काराय, कानिचन पुस्तकानि पठिनानि --

क्तप्रत्ययान्तस्य शब्दरूपं पुंल्लिङ्गे देव-शब्दवत्, स्त्रीलिङ्गे लता-शब्दवत्, नपुंसके फल-शब्दवत् भवति । यथा - कृतः कटः । दृष्टा लता । पठितं पुस्तकम् । क्तवतुप्रत्ययस्य च शब्दरूपं पुंल्लिङ्गे गोमत्-शब्दवत्, स्त्रील्लिङ्गे नदी-शब्दवत्, नपूंसके जगत्-शब्दवत् भवति । यथा -- पठितवान् बालः । पठितवती बालिका । गतवत् कुलम् ॥

क्तक्तवतूनिष्ठा -- भूतकाले धातोः क्त-क्तवतू प्रत्ययौ स्तः । तत्र क्तवतु-प्रत्ययः कर्तरि, क्त-प्रत्ययस्तु भावकर्मणोः एव सम्पद्यते । एवञ्च -- क्त-क्तवतुप्रत्ययान्तः शब्दः भूतकालिकक्रियायाः वाचकः सन् कस्यापि मुख्यवस्तुनः विशेषणीभूतार्थप्रतिपादकः भवति, यथा -- भुक्तः ओदनः, कृतः कटः, इद्यादि ॥

अयं च नियमः सकर्मकधातुस्थले एव, अकर्मकधातुस्थले तु भावे एव क्तप्रत्ययः भवति, क्तप्रत्ययान्तश्च शब्दः नपुंसकलिङ्गः भवति । यथा -- हसितम् , शयितम् , इत्यादि ।

( क्तवतुप्रत्ययः तु सर्वथा कर्तरि एव भवतीति न विस्मर्तव्यम् )
विमर्शः -- क्वचिद् गत्यर्तकात् अकर्मकात् श्लिषः उपसर्गविशिष्टेभ्यः शीङ्-स्था-आस्-वस्-जन्-रुह्-जॄ-धातुभ्यश्च कर्तृवाच्येऽपि क्तप्रत्ययः भवति ।

यथा - गङ्गां प्राप्तः मुनिः । ग्लानः सः । लक्ष्मीमाश्लिष्टः हरिः शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः पाणिनिः । उपोषितः भक्तः । राममनुजातः लक्ष्मणः । गरुढमारूढः विष्णुः । विश्वमनुजीर्णः ॥

पूजेच्छा-ज्ञानार्थकधातुभ्यः मतिबुद्धिपूजार्थेभ्यश्च वर्तमानकाले भवति । यथा -- अयं सतां पूजितः । मम देवः पूजितः ॥

(अनुवर्तनम्)

Wednesday, March 21, 2007

रघुवंशः -- उपोद्घातः

रघुवंशं पठन् , भावार्थ-अवगमनार्थं तिप्पण्यः स्वीकृताः । स्वपठनार्थं तदेव अत्रापि स्थापितम् । एताभ्यः तिप्पण्यः स्वीकृताः --
क) रामचन्द्रशुक्लेन विरचितः भावार्थः वाच्यपरिवर्तनम् च
ख) रामचन्द्रऐय्यरेन विरचिता तिप्पणी
ग) जिनसमुद्रेन विरचिता व्याख्या
घ) नारायणपण्डितेन विरचिता पदार्थदीपिका

क्रमेन प्रतिश्लोकं तस्य तिप्पणीं च अत्र स्थापितं भविष्यति ॥

Tuesday, March 20, 2007

हिमपातः

अद्य किञ्चित् हिमपातः । ये जनाः अमेरिकायाः ईशान्य-प्रान्ते वसन्ति, हेमन्त-ऋतु-जीवनं सहिमपातः । किन्तु , पश्चिमप्रान्ते, हिमपात-दर्शनं विरलम् । अद्य तु केवलः दर्शनमात्रहिमपातः । मार्गे न तिष्ठति, तृणे न दृष्यते च । तथाऽपि सर्वे मन्दं मन्दं जागरूकतया गच्छन्ति । हिमपातस्य परिणामः तु दैनन्दिककार्याणां हानिः । अद्य मम संस्कृतभाषावर्गः भवेत् । इदानीं न जाने !

Monday, March 19, 2007

आर्षविज्ञानमन्दिरस्य नूतनालयः

वामभाग-स्थापिता आह्वान-पत्रिका अद्य प्राप्ता । समीचीनम् अस्ति । वस्तुतया मया पत्रिका-द्वयं प्राप्तम् । एका संस्कृतेन लिखिता, अपरा आङ्ग्लभाषया लिखिता । किन्तु , संस्कृतपत्रं प्रथमं लिखित्वा, तस्य अनुवादः कृतः इति मन्ये, यतः संस्कृतपत्रस्य भावः गभीरतरः अस्ति ।

Sunday, March 18, 2007

वातायनम्

कार्यालये, स्वामी मां तस्य प्रकोष्ठम् आहूय, द्वारं पिहितवान् । मम तीव्र-हृदय-ताडनम् आरब्धम् । मया चिन्तितं--किम् प्रचलन् अस्ति--इति । मां दृष्ट्वा मृदु-हसन् सः अवदत् यत् मया सवातायनप्रकोष्ठं लब्धम् । दीर्घोच्छ्वासानन्तरं मया पृष्टं--एतेन रूपेन किमर्थं सूचितं--इति । उत्तरं दत्तं--मम क्रीडा अपि आवश्यकी खलु--इति ! अत्र, वातावरणं सदा मेघवृत्तम् अस्ति । अपि च, हेमन्तर्तौ सूर्यप्रकाशकालः अल्पः । बहुशः सूर्योदयपूर्वं कार्यालयं गत्वा, अस्तमनानन्तरं गृहं पुनरागमिष्यामि । यतः सङ्गणकस्य पृष्ठतः वातायनम् अस्ति, दीप्तिं द्रष्टुं शक्यते । पूर्वं भित्तिचतुष्टयमध्ये, विना घतीदर्शनं, समयः कः इति न वक्तुं शक्यते एव !

Thursday, March 01, 2007

AIR आकाश-वाणी

"इयम् आकाश-वाणी. सम्प्रति वार्ताः श्रूयन्ताम्" । यतः अधुना mp3-पत्रम् अन्तर्जाले स्थापयन्ति, कुत्राऽपि वयं भवेम, श्रोतुं शक्नुमः !

http://www.newsonair.com/index_regional.htm

Tuesday, February 20, 2007

भारतीय-संस्कृतिः

इदानीम् एव भारतं गत्वा पुनरागतवान् । तथापि मम मनः तु तत्रैव वर्तते । या संस्कृतिः तत्र अस्ति, अन्यत्र कुत्रापि न लभ्यते । ततः, मया पुनः निश्चितं यत् संस्कृत-पठनं अत्यन्तम् आवश्यकम् । तत्-द्वारा अस्माकं प्राचीन-संस्कृतिः अपि अस्माकम् उपरि पतेत् । प्रथमतया सम्भाषणं पठामः । यदा अस्माकं वचन-सामर्थ्यं भवति, तदा पठनं मुख्य-विषयः भवति । प्रति-मासं संस्कृत-भारत्याः मासिकीं "सम्भाषन-सन्देशः" नाम पत्रिकां पठितुं शन्कुमः । प्रायेन प्रति-पत्रिकां तस्याः ३०/३१ पत्राणि सन्ति । तथैव प्रति-मासं ३०/३१ दिनानि सन्ति . . .

Tuesday, December 26, 2006

दीप-कज्जलम्

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।
यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥

Thursday, November 30, 2006

वसुवज्-महोदयः

अत्र, वयं सर्वे भाग्यवन्तः । केभ्यः दिनेभः पूर्वं, श्री चमू-कृष्ण-शास्त्री (संस्कृतभारत्याः अखिल-भारत-सङ्घटन-मन्त्री) अस्माकं नगरं आगतवान्. ह्यः, अन्यः पूर्णकलिका (श्री वसुवज् महोदयः) अत्र आगत्य, अस्मान् पाठयति. संस्कृतभारत्याः कार्यकर्तॄभिः यदा अस्माकं परिचयः भवति, तदाऽपि ते सर्वे पुरातन-बान्धवाः इव एव. अग्रिम-सप्ताहे, प्रतिदिनं संस्कृत-कक्ष्या एव अत्र भवति. तदर्थं वयं सर्वे उत्सुकाः.

Friday, October 27, 2006

सुभाषितम् - अन्नदानम्

अन्नदानं परं दानं विद्यादानम् अतः परम् ।
अन्नेन क्षणिका-तृप्तिः यावज्जीवं च विद्यया ॥