Sunday, August 13, 2006

सुभाषितम् - मन्त्रः

षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ॥

षट्कर्णः - heard by six ears (overheard) भिद्यते - destroys मन्त्रः - the mantra (or counsel). चतुष्कर्णः - heard by four ears स्थिरो भवेत् - would remain steadfast. मन्त्रस्य (मन्त्रः, ६) - The mantra द्विकर्णस्य (द्विकर्णः, ६) - heard by two ears (not imparted) न गच्छति - does not go ब्रह्मा-अपि-अन्तम् - near to brahma.

A mantra (or counsel) is broken when overheard by an extra set of ears; It remains stead-fast when imparted in private. When it is only self-imparted, it surely does not take one to heaven (near brahma).

Image Source -- http://chitrapurmath.net/i8.jpg

सुभाषितम् - शास्त्रसारम्

षट्पदः पुष्पमध्यस्थो यथा सारं समुद्धरेत् ।
तथा सर्वेषु शास्त्रेषु सारं गृह्ण्न्ति पण्डिताः ॥

यथा - just as षट्पदः (१) - the six-footed one (a bee) पुष्प-मध्यस्थः - sitting in the middle of a flower समुद्धरेत् - draws out सारम् (सारः/सारम्, २) - its essence. तथा - so also पण्डिताः (पण्डितः, १, बहु) - the learned ones गृह्णन्ति - take सारम् (२) - the essence सर्वेषु (सर्व, ७, बहु) - in all शास्त्रेषु (शास्त्रः, ७, बहु) - the shastras.

The wise ones take away the essence of all the shastras, just as the six-footed bumble bee seated in the midst of a flower draws out its very essence.

सुभाषितम् - सकृत् सकृत्

सकृत् जल्पन्ति राजानः सकृज्जल्पन्ति साधवः ।
सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥

राजानः (राजन्, १, बहु) - kings जल्पन्ति - speak (order) सकृत् - once. साधवः (साधुः, १, बहु) - renunciates जल्पन्ति - speak (advice) सकृत् - once. कन्याः (कन्या, १, बहु) - daughters प्रदीयन्ते - are given [in marriage] सकृत् - once. एतानि (एतत्, २, बहु) - these त्रीणी - three [should be done] सकृत्-सकृत् - once and only once.

Kings speak their orders but once;
Sadhus speak their advice but once;
Daughters are given in marriage but once;
These three should be once and only once.

Saturday, August 12, 2006

सुभाषितम् - सहोदरः

देशे-देशे कलत्राणि देशे-देशे च बान्धवाः ।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥

देशे-देशे (देशः, ७)- in all places कलत्राणि (कलत्रम्, 1, बहु) - wives [can be found] च - and बान्धवाः (बान्धवः, १, बहु) relatives [can be found] देशेदेशे - everywhere. [but] न पश्यामि - I cannot see तं देशं - that [other] place यत्र - where सहोदरः भ्राता (भ्रातृ, १) - a true blood-brother [can be found].

Wives and relatives--these can be found everywhere; but a brother, a true blood-brother, in no other place can I see him.

सुभाषितम् - विवेकः

अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत हि ।
गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥

विनिश्चित्य (ल्यप्) - having deliberated upon अर्थानर्थौ (अर्थः अनर्थः च) - the advantages and disadvantages, व्यवसायं (व्यवसायः, २) - pursue it भजेत् - appropriately . कुर्यात् - Do संग्रहं - seize गुणतः - the meritous, and विसर्जयेत् - dismiss दोषतः - the fault-ridden.

Having deliberated upon both the advantages and disadvantages, pursue the decision relentlessly. Pursue the meritous actions, while rejecting the fault-ridden actions.

सुभाषितम् - रामायणम्

शृण्वन् रामायणं भक्त्या यः पादं पदमेव च ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥

यः - he who भक्त्या (भक्तिः, ३) - with bhakti, शृण्वन् (शतृ) - is listening रामायनं - to the ramayana पादं (पादः, २) - [or just] a quarter of a verse पदम् (पदम्, २) - [or just] a syllable. सः - he याति - goes to ब्रह्मणः (ब्रह्मन्, ६) - brahma's स्थानम् (२) - abode, [where he is] सदा - always पूज्यते - worshipped ब्रह्मणा (ब्रह्मन्, ३) - by brahma.

He who listens to the ramayana, a portion of its verse, or even just a syllable; He enters brahma-loka itself where he is ever worshipped by the creator.

Friday, August 11, 2006

विवाह-चित्रगुच्छः

अद्य, एकस्मिन् अन्तर्जालपुटे, विवाहस्य चित्रगुच्छं अपश्यम्. बहवः गुच्छाः अन्तर्जाले सन्ति, परन्तु एषः सम्यक्-कृतः. प्रायः दीर्घकाले सङ्गणकस्य समीपे उपविशन्, गुच्छकारः रचयितवान्. एकैकग्रामस्य विवाहपद्धतिः अस्ति. एतस्य रचयिता दक्षिणभारतदेशीय़ः तमिल्-जनः स्मार्तः च इति मन्ये. कृपया पश्यन्तु -- http://www.pbase.com/ajaxus/ceremonies

Thursday, August 10, 2006

श्लोकः -- गोविन्दः कृष्णः

पुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनाम् नयनोत्पलार्चिततनुम् गोपाल-सङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥


कान्तिम् (कान्ति, स्त्री, २) - splendour of the इन्दीवरः - blue lotus पुल्लम् - flower. वदनम् (२) - face of the इन्दुः - moon. अवतंस (अवतंस्, पुम्) - garland of बर्ह् (पुम्) - tail feather. श्रीवत्साङ्कम् (अङ्कः) - the one with the mark called श्रीवत्सः. उदारम् (उदारः, २) - noble. कौस्तुभः-धरं - the one bearing the कौस्तुभ [gem]. पीत-अम्बरम् (२) - the one with yellow clothes. सुन्दरम् (२) - charming one. तनुम् - the delicate one who is अर्चित - worshipped by the उत्पल - blossoming नयनं - eyes गोपीनाम् - of the gopis. सङ्गावृतम् - he who is ever encircled by a group of गोपाल - shepherds. गोविन्दम् - to that protector of cows. परम् - to him who [produces] the best कल - melodious वादनम् - sound of the वेणुः flute. भजे - I propitiate [him] with the भूषः - bejewelled दिव्यः - divine अङ्गम् - limbs.

I propitiate him,
who captures the very splendour of the blue lotus;
whose face is verily the beautiful moon itself;
who wears a garland of divine tail feathers;
who is the noble one marked by the residence of Lakshmi;
who wears the kaustubha gem;
who is the charming delicate yellow-clothed one;
who is verily worshipped the blossoming eyes of the gopis;
who is ever encircled by cowherds;
who produced the most melodious tunes from the flute,
played by divine bejewelled limbs.
Him, I do ever propitiate.

सूर्यास्तः

मम नगरस्य समीपे एकं लघुं द्वीपम् अस्ति. अन्यनागरिकाः अत्र आगच्छन्तः सर्वदा तत्र गन्तुं प्रयतन्ते. तत् द्वीपं तु अतिरमणीयं नास्ति....ततः जनाः किमर्थं अत्र आगच्छन्तः तत्र गच्छन्ति? यतः, नौकया द्वीपात् प्रत्यागमन-समये सूर्यास्तमनं अतिरमणीय़ं दृश्यते. केषु दिनेषु, तटाकः दर्पणः इव प्रतिभासन्, सूर्यः अतिरश्मिमान् भवति. सूर्यः आकाशात् किरणान् क्षिपति. अन्यः बलवान् सूर्यः अपि तटाक-मध्यात् किरणान् आकाशं प्रतिक्षिपति ! परन्तु, एतत् रमणीय़ं दर्शनं सर्वदा सर्वेभ्यः न लभन्ते. ततः अन्यनागरिकाः अत्र बहुशः आगत्य एतत् दर्शनं एकवारं लब्धुं प्रयतन्ते.

मातृभाषा

भारत-देशः एकः देशः, परन्तु पुरातन-काले अनेकाः राज्याः आसन्. प्रथमतः, प्रतिराज्यम्, संस्कृतम् एव मातृभाषा आसीत् प्रायः. परन्तु, अनेकाः वर्षाः अनन्तरम्, अनेकेषु राज्येषु, अनेकाः भाषाः अविकसन्. ततः, अद्य अपि तेलुगु, तमिल्, कन्नदा, हिन्दी इत्यादि भाषाभिः अनेकाः जनाः भाषन्ते. अमेरिका-देशे, एकः विश्वविद्यालयस्य संस्कृत-शिक्षकः उक्तवान्--भारत-देशं गत्वा, एकस्मिन् विद्यालये प्रविश्य, शिक्षिकाः अपश्यम्. कर्नाटक-राज्ये आसीत्, परन्तु सा भाषा अज्ञाता. किं कर्तव्यं इति अचिन्तयम्. ततः, संस्कृत-भाषया एव मन्दं मन्दं सर्वम् उक्तम्. छात्राः अहसन्, परन्तु, शिक्षिकाः मां अवागच्छन्! (शिक्षिकाः हसतः बालकान् छात्रान् दृष्ट्वा, बालकाः मौनाः भूत्वा, ते छात्राः प्रकोष्ठे धावितवन्तः) तस्मिन् समये, अहं निश्चयेन ज्ञातवान्, संस्कृत-भाषा एव भारत-देशस्य मातृभाषा--इति सः अमेरिका-देशीयः अध्यापकः उक्तवान्.