Monday, April 30, 2007
एकस्मिन् दिने बधिरः
अस्माकं परितः बहुविधजनाः । ये जनाः अस्माकं जीवन-मण्डले दृष्यन्ते, तेषां परिचयः भवेत् । प्रतिदिनं वयं दैनन्दिक-कार्यं कुर्वन्तः , बहुविधजनाः नयन-गोचरे सन्तः, हृदय-गोचरे असन्तः अपरिचिताः सन्ति । एकः निवेदकः (यः वार्तापत्रिकया वार्तां निवेदयति) बधिर-जीवनं अनुभवितुं , स्व-कर्णयोः पिधानं कृत्वा, बधिरैः सह एकस्मिन् दिने व्यवहृतवान् । प्रवृत्तस्य घटनस्य वार्ता-निवेदनं अत्र पठितुं शक्यते । अपरस्य पदचिह्नं दृष्ट्वाऽपि तस्य जीवन-स्थितिं न अवगन्तुं शक्नुमः । विना परिचयं , इतोऽपि क्लेशः । ये जनाः नयन-गोचरे व्यवह्रियन्ते , हृदय-गोचराह्वानं कुर्वाम ।
Thursday, April 26, 2007
पुराणत्वम्
पाश्चात्याः पुराणत्वं न जानन्ति एव । विख्यातायां वार्तापत्रिकायां प्रकाशितम् -- पुरातन-पुस्तके पुरातन-गुप्तं दृष्टम् इति । त्रयोदश-शतकस्य पुस्तकम् । तस्मिन् किमपि नूतनं दृष्टम् । तत् कथं वा पुरातनम् ? ऐरिस्टोतल् नाम जनः विश्वस्य प्रधान-तार्किकः इति केनापि गवेषकेन उक्तम् । एते जनाः किं वा जानीयुः ? यद् पाश्चात्यैः उक्तम्, तत् विहाय किमपि कदापि न कृतम् ? ये पाश्चात्य-अध्यापकाः इतिहासं, भारतविषयान् वा पाठयन्ति, ते पाश्चात्यानां विकल्पम् अनुसृत्य, तदेव पौनःपुन्येन प्रवचन्ति, उद्घोषयन्ति । यतः भारतीयैः स्वल्प-मात्रं सत्यं प्रदर्शितम्, निद्रित-गवेषकाः जागरिताः, ते किञ्चित् उररी-कुर्वन्ति इव नृत्यन्ति । न तु हृदयात् । अस्माभिः कार्यं करणीयम् ।
चितचिन्तयोः
चिन्तायास्तु चितायास्तु बिन्दुमात्रं विशेषतः ।
चिता दहति निर्जीवम् , चिन्ता दहति जीवितम् ॥
चिन्ता च, चिता च, तयोः कः भेदः ? शब्दरूप-भेदः तु बिन्दुः नकारः एव । किन्तु तयोः अन्तरे महान् अर्थ-भेदः । चितायाः उपयोगः कः ? सा निर्जीवं दहति । यः चितायाः उपयोगः करोति, सः जीवितः एव ॥ चिन्तायाः उपयोगः कः ? यः सचिन्ता सदा भवति, तस्य जिवनं कथं भवति ? वृथा एव । चिन्ता जीवितं दहति ।

Wednesday, April 25, 2007
कार्यव्यस्तः

Tuesday, April 24, 2007
परस्पराश्चर्यम्

Monday, April 23, 2007
व्यायामः

Sunday, April 22, 2007
मित-प्रकोष्ठ-कीर्तिः

एवं संस्कृत-क्षेत्रे, सम्भाषन-द्वारा बहवः उत्सुकाः नूतन-छात्राः । तेषां भाषाज्ञानं मितं, किन्तु कल्पनशक्तिः अमिता । तैः किं न कर्तुं शक्यते ? संस्कृतं पठन् , भाषा-शक्तिः वर्धमाना, संस्कृतस्य सम्पूर्णं बहिर्मुख-वेषपरिवर्तनं कारयितुं शक्नुवन्ति । रचयामः नव-इतिहासम्।
Saturday, April 21, 2007
प्रयोगाः

आश्चर्यचकितः अहं तदा उक्तवान् -- किन्तु "सः गच्छति" कर्तरि प्रयोगः एव भवत्या सम्यक् ज्ञातः . तदापि सः प्रयोगः कठिनः ? तदा सा पुनः निवेदितवती -- मम दोषः . कर्तरि-प्रयोगः कर्तरी इव . कर्तरी सर्वं कर्तयति, खण्डनं करोति . एवं प्रति-भागं पठितुं सरलं भवति . तर्हि कर्तरि-प्रयोगः सरलतरः -- इति । हसन् अहम् -- उपमानम् उपमेयम् . . . कस्य अनुसरणम् ? -- इति ।
Friday, April 20, 2007
भल्लूक-युवन्

Thursday, April 19, 2007
101 वर्षाः
१०१ वर्षेभ्यः पूर्वं बर्कली-महाविश्वविद्यालये संस्कृत-पाठनम् आरब्धम् । तत्कारणत् , अष्टाविंशितितमे दिनाङ्के उत्सवः भविष्यति । तत्रत्याः अध्यापकाः, पूर्व-छात्राः च एतस्मिन् अवसरे प्रवचिष्यन्ति । यद्यपि संस्कृतं पुरा, आधुनिक-क्षेत्रे एकशतवर्षाणां पाठनं महान् विषयः । तदन्तरे विश्वमानचित्रं कथं परिवर्तितम् ! शतवर्षाणां पठन-पाठने पुनः भवताम् ।
किन्तु , एकं परिवर्तनं भवेत् ! विश्वपश्चिमे पूर्वशतकात् पठनम् आङ्ग्लानुवाद-रीत्या प्रचलति । किन्तु सरलतम-मार्गः श्रवण-भाषणयोः मार्गः -- संस्कृतेन संस्कृतम् । गतशतके विश्वमानचित्रस्य परिवर्तनानि कति ? एवं सति, संस्कृतक्षेत्रे एतत् सरल-परिवर्तनं कारयितुं शक्नुमः इति मन्ये ।

Wednesday, April 18, 2007
युवकानाम् आवास-शिबिरम्

गतवर्षे, अहं प्रौढाणाम् आवासशिबिरं गतवान् । मम भाषावर्ग-शिक्षिका तु गुणवती । किन्तु , शिबिरं गत्वा ज्ञातं यत् संस्कृत-क्षेत्रे प्रायेण सर्वे गुणवन्तः । स्वकार्यम् अपालयन्तः परोपकारं कुर्वन्ति । ततः मह्यं महती प्रेरणा । अहम् एतत् शिबिरं गन्तुम् इच्छामि एव, किन्तु शिबिरम् अष्टादश-वर्शेभ्यः कनिष्ठेभ्यः आयोजितम् अस्ति । सर्वे स्वपुत्रान् अवश्यम् एतत् शिबिरं प्रेषयन्तु । मित्राणां पुत्रान् प्रेषणाय मित्राणी प्रेरयन्तु ।
Tuesday, April 17, 2007
वर्गाभ्यासः
सर्वत्र संस्कृतप्रियाः । कुत्राऽपि भवन्तु , पत्रालयद्वारा संस्कृतं पठितुं शक्यते । किन्तु पृथक् पठनस्य अपेक्षया गण-पठनम् उचितम् । किमर्थम् ?
- कालक्रमेण पठनं -- काल-त्जयनम् अपि प्रायः न भवेत्
- न केवलं पठनं, किन्तु श्रवणं, सम्भाषणं च
- न केवलं स्वदृष्टिः । सर्वेषां दृष्टयः काः इति ज्ञातुं शक्यते
- यत्र एकस्य काठिन्यम्, अपरस्य साहाय्यम्
- सर्वेषां प्रश्नानां चर्चा
कदाऽपि सर्वं ज्ञातम् इव दृष्यते । किन्तु , अपरस्य संशय-पृच्छने, उत्तरं जिह्वाग्रे न भवति (अथवा जिह्वाग्रे एव तिष्ठति) . . . स्व-अवगमन-स्थितिः परोक्षा भवति ।
Monday, April 16, 2007
अग्नि-गोला
आङ्ग्लक्षेत्रे अमेरिका-देशे, एकं प्रसिद्धं गीतं नाम्ना--भवती मम रश्मिमती । बहुत्र दृश्यते । अद्य, मनसि तत् गीतं उत्पन्नम् । प्रतिरात्रिं, पत्नी छदेन कदापि वातायनम् उद्घाटयति । तस्याः स्व-तापस् , तर्हि शैत्यवायुः रञ्जनीयः । किन्तु मया शैत्यम् अनुभूयते । तर्हि, अद्य कम्पन् "भवती अग्नि-गोला" मया गीतम् । किन्तु, आङ्ग्लभाषा-गितस्य शब्दाः सम्यक् न ज्ञाताः । तर्हि, संस्कृतेन गीतम् --
अग्नि-गोले , मम प्राण-प्रिये ।
मम प्राण-दाता सदा दीप्यते ।
ज्वलनं प्रति आगच्छन् अस्मि ।
तथैव सदा भवतु ॥
अग्नि-गोले , मम प्राण-प्रिये ।
मम प्राण-दाता सदा दीप्यते ।
ज्वलनं प्रति आगच्छन् अस्मि ।
तथैव सदा भवतु ॥
Friday, April 13, 2007
अर्जनशक्तिः
सहोद्योगिन्या सह वार्तालापम् । यद्यपि सा तन्त्रज्ञा, अद्यैव मया ज्ञातं यत् तस्याः रुचिः कलायाम् अस्ति । सा बहु सन्दराणि लेपन-चित्राणि रचयति । भावचित्राणि भूतलचित्राणी च, अथवा मनोत्सर्जं कृत्वा अनाकार-चित्राणी रचयति । तया उक्तम् -- कार्यालये इच्छा एव नास्ति । किन्तु , कलायां प्रथम-श्रेण्यां नास्मि । अपि च, तेन अर्जनं न भवति । तर्हि, कार्यालयम् आगत्य परिश्रमयन्ती कार्यं करोमि । किन्तु गृहं गत्वा, सकूर्चा मम खेलना ।
एवं सति, एकवारं तया कलया धनार्जनं कर्तुं प्रयत्नं भवेत् इति मया उक्तम् । तदा तया प्रत्युक्तम् -- न भोः . . . मम कार्यम् एकत्र भवतु , मम क्रीडा अपरत्र भवतु . . . नो चेत्, मम क्रीडा श्रमकार्यं भवेत् !
एवं सति, एकवारं तया कलया धनार्जनं कर्तुं प्रयत्नं भवेत् इति मया उक्तम् । तदा तया प्रत्युक्तम् -- न भोः . . . मम कार्यम् एकत्र भवतु , मम क्रीडा अपरत्र भवतु . . . नो चेत्, मम क्रीडा श्रमकार्यं भवेत् !
Thursday, April 12, 2007
उत्पन्नपश्चात्
उत्पन्नपश्चात् तापस्य बुद्धिः भवति यादृशी ।
तादृशी यदि पूर्वं स्यात् कस्य न स्यान्महोदयः ॥
यादृशी बुद्धिः तापस्य उत्पन्न-पश्चात् भवति , यदि तादृशी पूर्वं स्यात् , महोदयः कस्य न स्यात् ?
यादृशी - यथा । बुद्धिः । तापस्य - दुःखस्य । उत्पन्नपश्चात् - सृष्टिपश्चात् । भवति । यदि । तादृशी - तथा । पूर्वम् - दुखस्य पूर्वम् । स्यात् - अभवत् । महोदयः - मुक्तिः, ऐश्वर्यम् । कस्य । न । स्यात् - भवति ।
सर्वेषां क्लेशः कदाऽपि भवति । तदनन्तरं चिन्ता-मग्नः भवामः । यया क्रियया क्लेशः जातः, सा क्रिया पुनः अकरणीया इति सङ्कल्पं कुर्मः । किन्तु , क्रियायाः पूर्वं एव तथा चिन्तयामः चेत् , कोपि क्लेशः न भवति । एवं मुक्तिः ऐश्वर्यं च सदा अस्माकं भवति खलु ?

सायं भोजनम्
कार्यालये केचन सहोद्योगिनः चीन-देशे वसन्ति । प्रतिवर्षं प्रतिसहोयोगिनं अमेरिका-देशे सप्ताहद्वये कार्यं कुर्यात् इति अलिखित-नियमः । अतः गतसप्ताहात् केचन सहोद्योगिनः अत्र वसन्तः कार्यं कुर्वन्तः सन्ति । कार्यालय-स्वामिना उक्तम् -- सर्वे गुरुवासरे भोजनार्थं कमपि भोजनालयं गमिष्यामः इति ।
क्रमशः प्रतिगुरुवासरं भोजनार्थं मम मित्रगणः । मिलित्वा गच्छामः यत्र शाक-भोजनम् (अमांस-भोजनम्) लभ्यते । स्वामिनः गुरुवासरस्य भोजन-विषयकं पत्रं दृष्ट्वा मया चिन्तितं यत् मित्रेण प्रेषितम् इति । तर्हि मित्रगणे तस्य भोजनालस्य चर्चा । तस्मिन् भोजनालये मित्राणाम् अपि रुचिः । तर्हि, अद्य सायं सहोद्योगिनः मित्राणि अपि तस्मिन् एव भोजनालय-प्रकोष्ठे स्युः । अपि च सः प्रकोष्ठः लघु । किं हास्यं स्यात् . . .

Wednesday, April 11, 2007
एकः तन्तुः
पूर्वं विद्युत्-तन्तु-द्वारा एव विद्युत्यन्त्रस्य उपयोगः, दूरदर्शन-तन्तु-द्वारा एव दूरदर्शनस्य उपयोगः, दूरवाणी-तन्तु द्वारा एव दूरवाण्याः उपयोगः । किन्तु , काल-परिवर्तनम् । अद्यत्वे एकेन एव तन्तुना दूरदर्शनस्य दूरवाण्याः अन्तर्जालस्य च उपयोगः भवति । बहुषु प्रेदेशेषु दूरवाणी-तन्तवः सर्वकारैः प्रसारिताः । नगरिकाः अन्यमार्गेन दूरवाण्याः उपगोगं कुर्वन्ति चेत्, धनं कथं वा सर्वकारेण स्वीकुर्यात् ? परपक्षीयाः उच्चार्यन्ते -- परिवर्तनं भवतु . . . तत्-द्वारा व्यापार-वर्धनम् । तेन वर्धनेन धन-प्रवाहनम् -- इति । बहुषु प्रदेशेषु एषः वादः ।
संस्कृतम् resources
सम्भाषण-द्वारा (संस्कृतभारती-द्वारा) संस्कृतं पठन् , मया पुस्तकानां गवेषणं कृतम् । एतानि पुस्तकानि सम्यक् सन्ति । प्रायेण सर्वे संस्कृतभारती-द्वारा लभ्यते ।
- सम्भाषणम् -- अभ्यासपुस्तकम् , अभ्यासदर्शिनी , सम्भाषण-सन्देशः , सम्भाषण-सोपानम् , भाषापाकः, शुद्धिकौमुदी ।
- कोशाः -- english-sanskrit dictionary (संस्कृतभारती), चित्रपदकोषः, student's sanskrit-english dictionary (apte), practical sanskrit english dictionary (revised and enlarged edition).
- संस्कृतकार्यकर्तृभ्यः -- चमू-कृष्ण-शास्त्रिणा रचितानि पुस्तकानि , कौशल-बोधिनी ।
- व्याकरणम् -- कालबोधिनी , प्रयोगः , कारकम् , समासः , सन्धिः , णत्वणिजन्तम् , शतृशानजानन्तमञ्जरी , बृहद्धातुकुसुमाकरः , बृहद्-शब्दकुसुमाकरः ।
- अष्टाध्यायी -- व्यावहारिक-पाणिनीयम् , पाणिनीय-पद्धत्या शब्दरूपाणि , अष्टाध्यायी-सूत्रपाठः , अष्टाध्यायीभाष्य-प्रथमावृत्तिः , संस्कृत पठन पाठन की अनुभूत सरलतम विधि (प्रथमभागः , द्वितीयभागः)
पुस्तक-प्रकाशनम्

यदा प्रकाशकेन प्रकाशित-पत्राणि दृष्टानि, आश्चर्यचकितः अभवत् । प्रायेण तेन देवनागरी-लिपि कदाऽपि न दृष्टा । बन्धनं कर्तुं अन्तर्गत्य, झटिति बहिरागतवान् पृष्टवान् च -- केन भागेन उपरि भवितव्यं , केन भागेन वामेन भवितव्यम् ? -- इति । तदा मृदु-हसता मया उक्तम् -- एतस्मिन् कोणे पृष्ठ-सङ्ख्याः -- इति । लज्जितेन प्रकाशकेन मन्दम् उक्तम् -- अस्तु , शेषं ज्ञातम् ॥
Monday, April 09, 2007
व्याकरण-ग्रन्थाः
संस्कृतक्षेत्रे अनेके व्याकरण-ग्रन्थाः, किन्तु सर्वेषां मूल्यं पाणिनेः अष्टाध्यायी । पाणिनेः पूर्वम् अन्ये व्याकरण-ग्रन्थाः अवश्यम् आसन्, किन्तु ते अद्यत्वे अलभ्याः । काल-प्रवाहेण अन्ये नूतन-ग्रन्थाः अपि रचिताः -- सिद्धान्तकौमुदी इद्यादयः ।
कौमुद्यां अष्टाध्याय्याः एव सूत्राणि, किन्तु क्रमः भिन्नः । केचन पण्डिताः वदन्ति अष्टाध्याय्याः क्रमः एव उचितः, यतः तेन विना रटनं, विना काठिन्यं प्रति-सूत्रम् अवगन्तुं शक्यते इति । कथं एतत् ?
कौमुद्यां अष्टाध्याय्याः एव सूत्राणि, किन्तु क्रमः भिन्नः । केचन पण्डिताः वदन्ति अष्टाध्याय्याः क्रमः एव उचितः, यतः तेन विना रटनं, विना काठिन्यं प्रति-सूत्रम् अवगन्तुं शक्यते इति । कथं एतत् ?
अधः लिखितानि सूत्राणि मया रचितानि ।
- दूरदर्शनं सप्ताहान्ते ।
- न सन्ध्यायाम् ।
अत्र, द्वीतीयं सूत्रम् एव दृष्ट्वा अर्थः अज्ञातः । किन्तु , क्रमेण पठामः चेत्, अर्थः सरलः । यतः, द्वीतीयं सूत्रं भवति -- सप्ताहान्ते सन्ध्यायां दूरदर्शनं न भवतु । एवम् एव अष्टाध्याय्याम् । पूर्व-सूत्रेभ्यः शब्दाः प्रवहन्ति । तस्य नाम अनुवृत्तिः । प्रत्येकं नग्नं सूत्रं न अवगन्तुं शक्यते । परन्तु , अनुवृत्तिना सह अर्थः सरलः इति पण्डिताः उपदिषन्ते ।
सर्वत्र संस्कृतम्

Friday, April 06, 2007
स्थान-हास्यम्
शिशुः पितरं अपृच्छत् -- रेल-स्थानं गच्छति , बस-स्थानं गच्छति । परन्तु कार्यालयं गच्छति, न तु कार्यस्थानम् । एवं किम् ? -- इति ।
पिता प्रत्युत्तरम् दत्तवान् --
रेल-स्थानम् -- यत्र रेल-यानं स्थगयति ।
बस-स्थानम् -- यत्र बस-यानं स्थगयति ।
कार्य-स्थानम् -- . . .
पिता प्रत्युत्तरम् दत्तवान् --
रेल-स्थानम् -- यत्र रेल-यानं स्थगयति ।
बस-स्थानम् -- यत्र बस-यानं स्थगयति ।
कार्य-स्थानम् -- . . .
संस्कृताज्ञः

अहं कथं द्वितीया स्यात्, द्वितीया स्याम् अहं कथम्॥
umd_samskritam गणाय एतत् सुभाषितं प्रेषितम् । गण-प्रमुखेन उत्तर-पत्रं सूचितम् । भावार्थः -- काचित् युवती मातापितरौ वदति "यः पुरुषः संस्कृताज्ञः अस्ति, तेन सह कथं वा विवाहिता भवामि ? तस्य द्विताया कथं वा भवामि" इति । सः पुरुषः चिन्तयति विहसः इति शब्दस्य षष्ठी विहस्य, अपि च तस्य चतुर्थी विहाय इति । किन्तु , विहस्य (ल्यप्) इत्युक्ते हसित्वा । अपि च, विहाय (अव्ययः) इत्युक्ते त्यक्त्वा इव ।
अन्यः अर्थः अपि भाति । काचित् महिला मातापितरौ वदति -- यः पुरुषः स्वकार्यम् एव पालयति, परोपकारः कः इति तेन अज्ञातम् , तेन सह कथं वा विवाहिता भवामि -- इति । एषः अर्थः कुतः आगतः ? षष्ठी नाम मम, स्वकार्यम् । चतुर्थी नाम तस्मै, परोककारः ।
यस्य षष्ठी विहस्य -- यः स्वकार्यं हसन् (सुखेन) करोति ।
यस्य चतुर्थी विहाय -- यः परोपकारं कदापि न कुर्यात् (विहाय = त्वक्त्वा) ।
यस्य अहं द्वितीया -- यस्मै अहं द्वितीया, न तु आत्मभागः ।
द्वितीया स्याम् अहं कथम् -- तस्य द्वितीया (न तु प्रथमा) भवितुं कथं वा अङ्गीकरोमि ?
यथा वागर्थौ तथा संस्कृतसंस्कृती । तयोः नित्य-सम्बन्धः । यत्र संस्कृतं तत्र संस्कृतिः । एषा युवती पृच्छति -- यस्य संस्कृतज्ञानं नास्ति, यस्य परोपकारसंस्कृतिः न स्यात्, तेन सह किमर्थं मम बन्धः ? परोपकारी, तस्मै अन्ये सर्वे प्रथमाः, न तु स्वात्मा ॥
वयम् एवं भवाम -- यस्य षष्ठी च चतुर्थी च विहाय च विहस्य च ॥
गणित-शिक्षणम्
"आङ्ग्लभाषा-शिक्षणं गणित-शिक्षणस्य समं भवति चेत्" नाम लेखः । लेखकस्य वादः सम्भाषण-संस्कृतान्दोलनस्य वादः च समानः । शिक्षकाः आरम्भात् प्रतिपाठं गभीर-व्याकरण-कणं पाठयन्ति चेत् का हानिः ? उत्तरं लेखे वर्तते । यद्यपि लेखे आङ्ग्लभाषा-सन्दर्भे, गणित-सन्दर्भे च वर्णितम् अस्ति, तथापि एषः वादः संस्कृतक्षेत्रे अपि युक्तः । आरम्भे विहङ्गम-दर्शनं भवेत् । तदनन्तरं प्रतिछात्रं प्रतिविहङ्गमं स्वेच्छया अवतीर्य कणं कणं दृढं स्वीकुर्यात् । आरम्भे, प्रतिपाठं, तस्य दैनन्दिक-उपयोगः भवेत् । सर्वं सोदाहरणं भवेत् ।
Thursday, April 05, 2007
चाकलेहः

द्विकर्मकत्वम्
द्विकर्मके प्रधानकर्मपदं किं, गौणकर्मपदं किम् इति कथं जानीमः ? एषः प्रश्नः भाषावर्गे उद्गतः । द्विकर्मकधातूनां चत्वारः धातवः प्रसिद्धाः । तेषाम् अन्यकारकरूपं दृष्ट्वा सरलं भवति । भाषापाक नाम्ना पुस्तके --
(१) भिक्षुकः धनिकं धनं याचति । भिक्षुकः धनिकात् धनं याचति ।
(२) अध्यापकः छात्रं प्रश्नं पृच्छति । अध्यापकः छात्रात् प्रश्नं पृच्छति ।
(३) पितामहः पौत्रं कथां वदति । पितामहः पौत्राय कथां वदति ।
(४) कृषिकः गृहं वस्तूनि नयति । कृषिकः गृहे वस्तूनि नयति ।

एवं भाषापाके अन्येषां सर्वेषां द्विकर्मकधातूनाम् अन्यकारकरूपम् अपि दर्शितम् अस्ति ॥
प्रपातः

Wednesday, April 04, 2007
गगन-विरोधः

Tuesday, April 03, 2007
वायुगोलेन हास्यम्

Monday, April 02, 2007
रः , मतुप्
मित्रेण सूचितं (धन्यवादः) यत् मत्वर्थे रः इति प्रत्ययः वर्तते । तेन प्रत्ययेन "मधुरः" इति सामान्यस्य शब्दस्य व्युत्पत्तिः । मतुप् प्रत्ययः कः ? तत् अस्य अस्ति अस्मिन् इति मतुप् ५.२.९४ ॥ यथा गोमान् , वृक्षवान् ॥ मतुप् प्रत्ययस्य भावार्थं ज्ञातम् ... रः प्रत्ययः कः ?
ऊष-सुषि-मुष्क-मधोः रः ५.२.१०७, तदस्यास्त्यस्मिन्निति , तद्धिताः , ङ्याप्प्रातिपदिकात् , प्रत्ययः , परश्च ॥
अर्थः -- ऊष , सुषि , मुष्क , मधु इत्येतेभ्यः प्रातिपदिकेभ्यः रः प्रत्ययः भवति मत्वर्थे ॥ उदाहरणम् -- ऊषरं क्षेत्रम् , सुषिरं काष्ठम् , मुष्करः पशुः , मधुरः गुडः ॥
मधुः ---रः---> मधुरः !

चलच्चित्रम्

Sunday, April 01, 2007
हास्य-दिनम्

Subscribe to:
Posts (Atom)