Monday, February 20, 2006

नलोपाख्यानम्

नलोपाखानं महाभारत-कथा। बहुत्र, संस्कृतछात्राणां पठनाभ्यासाय, इयं कथा युक्ता। ग्रन्थालयं गत्वा, पुस्तकानि दृष्टानि। प्रतिश्लोकं पठित्वा, भावार्थः अत्र लिखितः। प्रधानतया रामचन्द्र-ऐयर् महोदयस्य पुस्तक-पाठानुसारं लिखितम्। तिप्पण्यः ततः, तारिणी-झा-महोदयस्य पुस्तकात् च स्वीकृता।

श्लोकाः ३.५०.१, ३.५०.२, ३.५०.३, ३.५०.४, ३.५०.५, ३.५०.६, ३.५०.७, ३.५०.८, ३.५०.९, ३.५०.१०, ३.५०.११, ३.५०.१२, ३.५०.१३, ३.५०.१४, ३.५०.१५, ३.५०.१६, ३.५०.१७, ३.५०.१८, ३.५०.१९, ३.५०.२०, ३.५०.२१, ३.५०.२२, ३.५०.२३, ३.५०.२४, ३.५०.२५, ३.५०.२६, ३.५०.२७, ३.५०.२८, ३.५०.२९, ३.५०.३०, ३.५०.३१

३.५१.१, ३.५१.२, ३.५१.३, ३.५१.४, ३.५१.५, ३.५१.६, ३.५१.७, ३.५१.८, ३.५१.९, ३.५१.१०, ३.५१.११, ३.५१.१२, ३.५१.१३, ३.५१.१४, ३.५१.१५, ३.५१.१६, ३.५१.१७, ३.५१.१८, ३.५१.१९, ३.५१.२०, ३.५१.२१, ३.५१.२२, ३.५१.२३, ३.५१.२४, ३.५१.२५, ३.५१.२६, ३.५१.२७, ३.५१.२८, ३.५१.२९

नलोपाख्यानम् ३.५०.१

बृहदश्व उवाच--

आसीद्राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥३.५०.१॥

अन्वयः॥ बली इष्टैः गुणैः उपपन्नः रूपवान् अश्वकोविदः वीरसेनसुतः नलः नाम राजा आसीत्॥

तिप्पणी॥ वीरसेनस्य सुतः वीरसेनसुतः। रूपम् अस्य अस्ति इति रूपवान्। अश्वेषु कोविदः अश्वकोविदः। बलम् अस्ति अस्य इति बली।

वीरसेनस्य सुतः नलः। सः नलः महाराजः। कीदृशः? बलवान्, अश्वपण्डितः, सुरूपः च। सर्वैः अभीष्टैः सद्गुणैः युक्तः इति भावः।

नलोपाख्यानम् ३.५०.२

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥३.५०.२॥

अन्वयः॥ (सः) मनुजेन्द्राणां मूर्ध्नि अतिष्ठत् यथा देवपतिः, तेजसा आदित्यः इव सर्वेषां उपर्युपरि (च आसीत्)॥

तिप्पणी॥ मनोः जाता मनुजाः, मनुजानां इन्द्रः मनुजेन्द्रः। देवानां पतिः देवपतिः इन्द्रः।

सः गुणवान् नलः पुनः कथम्? सर्वेषां मनुजेन्द्रानां राज्ञां श्रेष्ठतमः। सः एव प्रथमः अग्रे मस्तके स्थितवान्। यथा सूर्यः श्रेष्ठतमः तेजस्वी, तथा नलः अपि सर्वेषां उपरि आसीत्।

नलोपाख्यानम् ३.५०.३

ब्राह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥३.५०.३॥

अन्वयः॥ निषधेषु महीपतिः ब्राह्मण्यः वेदवित् शूरः अक्षप्रियः सत्यवादी महान् अक्षैहिणीपतिः (च आसीत्)॥

तिप्पणी॥ ब्राह्मणानां वशंवदः इति ब्राह्मण्यः। ब्रह्मणे हितः इति ब्रह्मण्यः। वेदान् वेत्ति इति वेदवित्। अक्षाः प्रियाः यस्य सः अक्षप्रियः। अक्षौहिण्याः पतिः अक्षौहिणीपतिः।

सः नलः पुनः कथम्? सः निषधराज्यस्य राजा। सः अक्षौहिण्याख्यविशालवाहिन्याः स्वामी, धर्मपालकः च--ब्रह्मणे हितः, वेदज्ञः, वीरः। सदा तस्य सत्यध्वजः। तथापि नलस्यापि राज्ञां दोषः, यथा सः द्यूतप्रमी।

नलोपाख्यानम् ३.५०.४

ईप्सितो वरनारीणां उदारः संयतेन्द्रियः ।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥३.५०.४॥

अन्वयः॥ (सः) वरनारीणां ईप्सितः, उदारः, संयतेन्द्रियः धन्विनां श्रेष्ठः, साक्षात् मनुः इव स्वयं रक्षिता (आसीत्)॥

तिप्पणी॥ वराश्च ताः नार्यः च, वरनार्यः। आप्तुं इष्टः ईप्सितः। संयतानि इन्द्रियाणि येन सः संयतेन्द्रियः। प्रशस्तं धनुः येषां ते धन्विनः।

अपि च, सः नलः उत्तमाङ्गनानां प्रियः। सः उदारः, स्वेन्द्रियानां निग्राहकः च। रक्षणे अपि सः धन्विनां प्रथमः। एवं, सः साक्षात् मनुः इव आरक्षकः।

नलोपाख्यानम् ३.५०.५

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥३.५०.५॥

अन्वयः॥ तथा एव विदर्भेषु भीम (नाम्ना) भीमपराक्रमः शूरः सर्वगुणैः युक्तः आसीत्। सः च अप्रजः प्रजाकामः (आसीत्)॥

तिप्पणी॥ भीमः पराक्रमः यस्य सः भीमपराक्रमः। प्रजां कामयते इति प्रजाकामः। न विद्यते प्रजा यस्य सः अप्रजः।

यथा राजा नलः निषधेषु, तथा विदर्भेषु राजा भीमः आसीत्। सः महान् पराक्रमी, सद्गुणैः उपपन्नः। यतः सः सन्तानरहितः, सः सन्तानेच्छुकः।

नलोपाख्यानम् ३.५०.६

स प्रजार्थे परं यत्नम् अकरोत्सुसमाहितः ।
तमभ्यगच्छद् ब्रह्मर्षिर्दमनो नाम भारत ॥३.५०.६॥

अन्वयः॥ भारत! सः प्रजार्थे सुसमाहितः (भूत्वा) परं यत्नम् अकरोत्। दमनः नाम ब्रह्मर्षिः तम् अभ्यगच्छत्॥

तिप्पनी॥ भरतस्य अपत्यं भारतः। सुष्ठु समाहितः सुसमाहितः। ब्रह्मा च असौ ऋषिः ब्रह्मार्षिः।

भरतकुलोत्पन्न! युधिष्ठिर! अपत्यार्थं अत्यन्तं सावधानः नलः महान् आयासः कृतः। एकदा एकः दमनः नाम्ना ऋषिः तं प्रति गतवान्॥

नलोपाख्यानम् ३.५०.७

तं स भीमः प्रजाकामः तोषयामास धर्मवित् ।
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥३.५०.७॥

अन्वयः॥ राजेन्द्र! सः भीमः धर्मवित् प्रजाकामः महिष्या सह तं सुवर्चसं सत्कारेण तोषयामास॥

तिप्पणी॥ राज्ञाम् इन्द्रः राजेन्द्रः। सुष्ठु वर्चः तेजः यस्य सः सुवर्चाः। धर्मं वेत्ति इति धर्मवित्। शोभनं वर्चः यस्य सः सुवर्चसः।

राजा भीमः धर्मज्ञः सादरः, पट्टाभिषिक्तया राज्ञ्या सह तं मुनिं तेजस्विनं विनम्रेण प्रसादयामास॥

नलोपाख्यानम् ३.५०.८-९

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥३.५०.८॥
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।
उपपन्नान् गुणैः सर्वैः भीमान् भीमपराक्रमान् ॥३.५०.९॥

अन्वयः॥ दमनः प्रसन्नः महायशाः सर्वैः गुणैः उपपन्नान् दमयन्तीं कन्यारत्नं सुवरचसं त्रीन् कुमारान् दमं दान्तं दमनं च भीमान् भीमपराक्रमान् तस्मै सभाराय वरं ददौ॥

तिप्पणी॥ भार्यया सह वर्तते इति सभार्यः। कन्यासु रत्नं कन्यारत्नम्। महत् यशः यस्य सः महायशाः। भीमः पराक्रमः यस्य सः भीमपराक्रमः। दमयति नाशयति अमङ्गलादिकम् इति दमयन्ती।

दमनः परमकीर्तिशीला महायशस्वी भीमाय सपत्नीकाय अपत्यचतुष्टयम् अददत्। एका पुत्री, त्रयः पुत्राः च। दमयन्ती नाम्ना गुणवती उत्तमकन्या। दमः दान्तः दमनः च नाम्ना पुत्राः वीराः अभयङ्करशीलाः। मुनिः एतं वरं महाराजाय दत्तवान्।

नलोपाख्यानम् ३.५०.१०

दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥३.५०.१०॥

अन्वयः॥ दमयन्ती सुमध्यमा तु रूपेण तेजसा यशसा श्रिया सौभाग्येन च लोकेषु यशः प्राप॥

तिप्पणी॥ सुष्ठु मध्यमः मध्यमभागः यस्याः सा सुमध्यमा।

भीमस्य अपत्यचतुष्टयम्। तेषु पुत्री दमयन्ती लोकेषु ख्यातिम् अप्राप्नोत्। कथम्? सा कृशोदरी, रूपवती, तेजस्विनी, श्रीमती, सौभाग्यवती च। तैः गुणैः सा यशः कीर्तिं प्राप्तवती।